________________
प्रात्मानुशासनम् । कुबोधरागादिविचेष्टितैः फलम् त्वयापि भूयोजननादि लक्षणम् । प्रतीहि भव्यप्रतिलोमतिभिध्रुवं फलं प्राप्स्यसि तद्विलक्षणम् ॥१०॥ दयादमत्यागसमाधिसन्ततः पथि प्रवाहि प्रगुणं प्रयत्नव न्। नयत्यवश्यं वचसामगोचरं विकल्पदरं परमं किमप्यसौ१०७ विज्ञाननिहितमाहं कुटीप्रवेश विशुद्धकायमिव । त्यागः परिग्रहाणामवश्यमजरामरं कुरुते ॥१०८॥ अभुक्त्वापि परित्यागात्स्वोच्छिष्टं विश्वमासितम् । येन चित्रं नमस्तस्मै कुमारब्रह्मचारिणे ॥१०६॥ अकिञ्चनोऽहमित्यास्स्व त्रैलोक्याधिपतिर्भवेः। योगिगम्यं तव प्रोक्तं रहस्यं परमात्मनः ॥११०।। दुर्लभमशुद्धमपसुखमविदितमृतिसमयमल्पपरमायुः । मानुष्यमिहैवतपोमुक्तिस्तपसैव तत्तपः कार्यम् ॥ १११॥ आराध्यो भगवान जगत्रयगुरुर्वृत्तिः सतां सम्मता क्लेशस्तञ्चरणस्मृतिः क्षतिरपि प्रप्रक्षयः कर्मणाम् । साध्यं सिद्धिसुखं कियान परिमितः कालो मनःसाधनम् सम्यक चेतसि चिन्तयन्तु विधुरं किंवा समाधौ बुधाः२१२ द्रविणपवनप्राध्मातानां सुखं किमिहेक्षते किमपि किमयं कमव्याधः खलीकुरुते खलः। चरणमपि किं स्पृष्टुं शक्ताः पराभवपांशवो वदत तपसोऽप्यन्यन्मान्यं समीहितसाधनम् ॥११३॥
इहैव सहजान् रिपून्विजयते प्रकोपादिकान् . गुणाः परिणमन्ति यानसुभिरप्ययं वाति ।