________________
आत्मानुशासनम् । भीत्येवाभिमुखान्तकादतितरां कायोप्ययं कम्पते निष्कम्पस्त्वमहो प्रदीप्तभवने प्यासे जराजर्जरे ॥ ११ ॥ अतिपरिचितेष्ववक्षा नवे भवेत् प्रीतिरिति हि जनवादः । त्वं किमि मृषा कुरुषेदोशासको गुणेष्वरतः ॥ १२ ॥ हंसैर्न भुक्तमतिकर्कशमम्भसापि नो संगतं दिनविकाशि सरोज मिच्छन् । नालोकितं मधुकरेण मृतं वृथैव प्रायः कुतो व्यसनिनो स्वहिते विवेकः॥ ३ ॥ प्रज्ञव दुर्लभा मुष्ठु दुर्लभा सान्यजन्मनि । वां प्राप्य ये प्रमाद्यन्ति ते शोच्याः खलु धीमताम् । ६४। लोकाधिपाः क्षितिभुजो भुवि येन जाता. स्तमिन् विधौ सति हि सर्वजनप्रसिधे । शोच्यं तदेव यदमीस्पृहणीयवीर्यास्तेषां बुधाश्च वत किङ्करतां प्रयान्ति ॥ १५ ॥ यस्मिन्नस्ति स भूभृतो धृतमहावंशाः प्रदेशः परः प्रज्ञापारमिताधृतोन्नतिखना मूर्धा ध्रियन्ते श्रियै । भूयास्तस्य मुजङ्गदुर्गमतमो मार्गो निराशस्ततो । व्यक्तं वक्तुमयुक्तमार्य्यमहतां सर्वार्यसाक्षात्कृतः। ६३ । शरीररेऽस्मिन् सर्वाशुचिनि बहुदुःखे पि मिवसन् व्यरंसीन्नो नैव प्रथयति जखः प्रीतिमधिकाम् । इमं दृष्पाप्यस्माद्विरमयितुमेनं च यतते यतिकताख्यानःपरहितरतिं पश्य महतः ।। १७ ॥ इत्यं तथेति वहुना किमुदीरितेन भूयस्त्वयैव ननु जन्मनि भुक्तमुक्तम् ।