________________
आत्मानुशासनम् । विपरिमृशत पुत्राः शत्रवः सर्वमेतत् त्यजत भजत धम्म निर्मलं शर्मकामाः ॥६०॥ तत्कृत्यं किमिहेन्धनैरिव धनैराशाग्निसंधुतणेः सम्बन्धेन किमत शश्वदशुभैः सम्बन्धिभिर्बन्धुभिः । किं मोहाहिमहाबिलेन सदृशा देहेन गेहेन वा देहिन याहि सुखाय ते समममुं मा गाः प्रमादं मुधा ॥१॥ श्रादावेव महाबलैरविचलं पट्टेन बद्धा स्वयं रक्षाध्यक्षभुजालिपजरवृता सामन्तसंरक्षिता। लक्ष्मीर्दीपशिस्त्रोपमा क्षितिमतां हा पश्यतां नश्यति प्रायः पातितचामरानिलहते वान्यत्र काशा नृणाम् ॥६२॥ दीप्तोभयाग्रवातारि दारूदरगकीटवत् । जन्ममृत्युसमाश्लिष्टे शरीरे बत सीदसि ॥६३॥ नेत्रादीश्वरचोदितः सकलुषो रूपादिविश्वाय कि प्रेष्यः सीदति (सि) कुत्सितव्यतिकरैरहांस्यलं बृहयन् । नीत्वा तानि भुजिष्यतामकलुषो विश्चं विसृज्यात्मवानात्मानं धिनु सत्सुखी धुतरजाः सद्वृत्तिभिर्निर्वृतः ॥६॥ अर्थिनो धनमप्राप्य धनिनोप्यवितृप्तितः । क्रष्टं सर्वेऽपि सीदन्ति परमेको मुनिः सुखी ॥६५॥ परायत्तात्सुखाद्दुःखं वायत्तं केवलं वरम् । अन्यथा सुखिनामानः कथमासंस्तपस्विनः ॥६६॥ यदेतत्स्वच्छन्द विहरणमकार्पण्यमशनं सहास्यैः संवासः श्रुतमुपशमकश्रमफलम् । मनो मन्दस्यन्दं पहिरपि चिरायाति विमृशन् न जाने कस्येयं बरिणतिरुदारस्य तपसः ॥६॥