SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ स्तोत्र-संग्रह। उत्पन्नोस्यतिदोषधातुमलवदेहोसि कोपादिवान् साधिव्याधिरसि प्रहीणचरितोऽस्यस्यात्मनो बञ्चकः । मृत्युव्याप्तमुखान्तरोऽसि जरसा प्रस्तोसि जन्मिन् वृथा किं मत्तो स्यसि कि हितारिरहिते किं वासि बद्ध स्पृहः॥५४॥ उग्रग्रीष्मकठोरधर्मकिरणस्फूर्जद्गभस्तिप्रभैः संतप्तः सकलेन्द्रियैरयमहो संवृद्धतृष्णो जनः अप्राप्याभिमतं विवेकविमुखः पापप्रयासाकुलस्तोयोपान्तदुग्न्त कदमगतक्षीणोक्षवत् क्लिश्यते ॥१५॥ लब्न्धनोज्वलत्यग्निः प्रशाम्यति निरन्धनः । ज्वलत्युभयथाप्युच्चैरहो मोहाग्निरुत्कटः ॥५६॥ किं मर्माण्यभिदन्नभोकरतरो दुःकर्मागर्मुद्गणः किं दुःखज्वलनावली विलसितै लेढ़ि देहश्चिरम् । कि गर्जयमतूर्य्य (र) भैरवरवान्नाकर्णयन्निर्णयन् येनायं न जहाति मोहविहितां निद्रामभद्रां जनः ॥५॥ तादात्म्यं तनुभिः सदानुभवनं पाकस्य दुःकर्मणो ब्यापारः समयं प्रति प्रकृतिभिर्गाढं स्वयं बन्धनम् । निद्राविश्रमणं मृतेः प्रतिभयं शश्वन्मृतिश्च ध्रुवं अन्मिन् जन्मनि ते तथापि रमले तत्रैव चित्र महत् ॥८॥ अस्थिस्थूलतुलाकलापघटितं नद्धं शिरास्नायुभिश्वर्माच्छादितमन्नसान्द्रपिशितैर्लिप्तं सुगुप्तं खलैः । कर्मारातिभिरायुरुच्चनिगलालग्नं शरीरालयं कारागारमवेहि ते हतमते प्रीतिं वृथा मा कृथाः ॥५६॥ शरणमशरणं वो बन्धवो बन्धमूलं चिरपरिचितदारा द्वारमापद्गृहाणाम् ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy