________________
स्तोत्र-संग्रह। ग्वं प्रागेव परिग्रहापरिहर त्याज्यान गृहीत्वापि ते माभूभौतिकमोदकव्यतिकरं संपाद्य हास्यास्पदम् ॥४०॥ सर्व धर्ममयं क्वचित क्वचिदपि प्रायेण पापात्मकम् काप्येतद्वयबत्करोति चरितं प्रशाधनानामपि । तस्मादेष तदन्धरज्जुवलनं स्नानं गजस्थाथवा मत्तोन्मत्तविचेष्टितं न हि हितो गेहाश्रमः सर्वथा ॥४१॥ कृष्ठाप्त्वा नृपतीन्निषेध बहुशो भ्रान्त्वा वनेऽम्भोनिधौ किं क्लिश्नासि सुखार्थमत्र सुचिरं हा कष्टमज्ञानतः । तैलं त्वं सिकता स्वयं मृगयसे वाञ्छेद् विषाजनीवितुं नन्वाशाग्रहनिग्रहात्तव सुखं न ज्ञातमेतत्वया ॥ ४२ ॥ प्राशाहुताशनग्रस्त घस्त्वर्थी (स्तूच्चैः) बंशजां जनाः । हा किलैति (त्य) सुखच्छायांदुःखधर्मापनोद (दि) नः ॥४३॥ खातेऽभ्यासजलाशयाजनि शिला प्रारब्धनिर्वाहिणा भूयोभेदि रसातलावधि ततः कच्छात्सुतुच्छं किल । क्षारं वार्युदगात्तदप्युपहतं तिकृमिश्रेणिभिः शुष्कतच पिपासितास्य सहसा कष्टं विधेश्चेष्टितम् ॥४४॥ शुद्धधनैर्विवर्द्धन्ते सतामपि न संपदः । न हि स्वच्छाम्बुभिः पूर्णाः कदाचिदपि सिंधषः ॥४५॥ स धर्मो यत्र नाधर्मस्तत्सुखं यत्र नासुखं । तज्ज्ञानं यत्र नाशानं सा गतिर्यत्र मांगतिः ॥४६॥ वार्तादिभिर्विषयलोलविचारशून्यः क्लिासि यन्मुहुरिहार्थपरिग्रहार्थम् । तच्चेष्टितं यदि सकृत्परलोकबुद्धया न प्राप्यते ननु पुनर्जननादि दुःखम् ॥ ४७ ॥