________________
प्रात्मानुशासनम् । भर्तारः कुल पर्वता इध भुवो मोहं विहाय स्वयं रत्नानी निधयः पयोधय इव व्यवृत्तवित्तस्पृहाः। स्पृष्टाः कैरपि नों नेभोविभुतयाविश्वस्य विश्रान्तये सन्त्यद्यापिचिरन्तनान्तिकचराःसन्तः कियन्तोऽप्यमी॥३३॥ पिता पुत्रं पुत्रः पितरमभिसंधाय बहुधा विमोहादीहेते सुखलवमवाप्तुं नृपपर्दम् । अहो मुग्धो लोको मृतजननदंष्ट्रान्तरगतो न पश्यत्यश्रान्तं तनुमपहरन्तं यमममुम् ॥ ३४ ॥ . अन्धादयं महानन्धी विषयान्धीकृतेक्षणः । चक्षुषान्धो न जानाति विषयान्धो न केनचित् ॥३५॥ आशागतः प्रतिप्राणिं यस्मिन् विश्वमरगूपमम् । कस्य किं कियदायाति वृथा वो विषयैषिता ॥३६॥ आधुश्रीवपुरादिकं यदि भवेत्पुण्यं पुरोगर्जितम्. स्यात्सर्व न भवेन्न तच नितरामायासितेऽप्यात्मनि । इत्या ः सुविचार्य कार्यकुशलाः कार्येऽत्र मन्दोद्यमाः द्रागागामीभवार्थमेव सततं प्रीत्या यतन्तेतराम् ॥३७॥ का स्वादो विषयेष्यसी कटुविषप्रख्येष्वलं दुःखिना यानन्वेष्टुमिव त्वयाशुचिकृतं येनाभिमानामृतम् । . प्राज्ञातं करणैर्मनाप्रणधिभिः पित्तज्यराविष्टवत् कष्टं रागरसैः सुधीस्त्वमपि सन् व्यत्यासितास्वादनः॥३८॥ अनिवृत्तेर्जगत्सवं मुखादवशिनष्टि यत् । तत्तस्याशक्तितो भोक्तुं वितनोर्भानुसोमवत् ॥ ३९ ॥ साम्राज्यं कथमप्यवाप्य सुचिरात्संसास्सारं पुनस्तत्त्यक्त्वैव यदि क्षितीश्वरवरा प्राप्ताः श्रियं शाश्वतीम् ।