________________
- स्तोत्र-संग्रह। प्रत्याख्यानं वपुषो व्युत्सर्गश्चेति कर्तव्यम् ॥२०१॥ सम्यग्दण्डो वपुषः सम्यग्दण्डस्तथा च वचनस्य । मनसः सम्यग्दण्डो गुप्तित्रितयमवनुगम्यम् ॥२०२।। सम्यग्गमनागमनं सम्यग्भाषा तथंषणा सम्यक् । सम्यग्ग्रहनिक्षेपो व्युत्सर्गः सम्यगिति समितिः ॥ २०३।। धर्मः सेव्यः शान्तिः मृदुत्वमृजुता च शौचमथ सत्यम् । पाकिञ्चन्यं ब्रह्म त्यागश्च तपश्व संयमश्चेति ॥२०॥ अध्रुवमशरणमेकत्वमन्यताशौचमारको जन्म । लोकवृषबोधिसंवरनिर्जराः सततमनुप्रेक्ष्याः ॥२०॥ चुतृष्णाहिममुष्णं नग्नत्वं याचनारातरलाभः । दंशो मशकादोनामाकोशो व्याधिदुःखसंगमनम् ।।२०।। स्पर्शश्च तृणादीनामज्ञानमदर्शनं तथा प्रशा। सत्कारपुरस्कारः शय्या चर्या वधो निषद्या स्त्री ॥२०७।। द्वाविंशतिरप्येते परिषोढव्याः परीषहाः सततम् । संक्लेशमुक्तमनसा संक्लेशनिमित्तभीतेन ॥२०॥ इति रत्नत्रयमेतत्प्रतिसमयं विकलमपि गृहस्थेन । परिपालनीयमनिशं निरत्ययां मुक्तिमभिलषिता ।।२०६।। बद्धोद्यमेन नित्यं लब्ध्वा समयं च बोधिलाभस्य । पदमवलम्ब्य मुनीनां कर्तव्यं सपदि परिपूर्णम् ॥२१०॥ असमग्रं भावयतो रत्नत्रयमस्ति कर्मवन्धो यः। सविपतकृतोऽवश्यं मोक्षोपायो न बन्धनोपायः ॥२११॥ येनांशेन सुदृष्टिस्तेनांग्रेनास्य बन्धनं नास्ति । येनांशेन तु रागस्तेनांशेनास्य बन्धनं भवति ॥ २१२ ॥ येनांशेन झानं तेनांशेनास्य बन्धनं नास्ति ।