________________
पुरुषार्थसिद्ध्युपायः ।
५३
येनांशेन तु रागस्तेनांशेनास्य बन्धनं भवति ॥ २१३ ॥ येनांशेन चरित्रं तेनांशेनास्य बन्धनं नास्ति । येनांशेन तु रागस्तेनांशेनास्य बन्धनं भवति ॥ २९४ ॥ योगात्प्रदेशबन्धः स्थितिबन्धो भवति यः कषायान्तु । दर्शनबोधचरित्रं न योगरूपं कषायरूपं च ॥ २१५ ॥ दशमात्मविनिश्चितिरात्मपरिज्ञानमिष्यते बोधः । स्थितिरात्मनि चारित्रं कुत एतेभ्यो भवति बन्धः ॥ २२६॥ सम्यक्त्वचरित्राभ्यां तीर्थकराहारकर्मणो बन्धः । योऽप्युपदिष्टः समये न नयविदां सोऽपि दोषाय || २१७ || सति सम्यक्त्वचरित्रे तीर्थकराहारबन्धकौ भवतः । योगकषाय तस्मात्तत्पुनरस्मिन्नुदासीनम् ॥ २१८ ॥ ननु कथमेवं सिद्धयतु देवायुः प्रभृतिसत्प्रकृतिबन्धः । सकलजनसुप्रसिद्धो रत्नत्रयधारिणां मुनिवराणाम् ॥ २२६॥ रत्नत्रयमिह हेतुर्निर्वाणस्यैव भवति नान्यस्य । श्रावति यत्तु पुण्यं शुभोपोगोऽयमपराधः ॥ २२० ॥ एकस्मिन्समवायादत्यन्तविरुद्ध कार्ययोरपि हि । इह दहति घृतमिति यथा व्यवहारस्तादृशोऽपि रूढिमितः २२१ सम्यक्त्वचरित्रबोधलक्षणो मोक्षमार्ग इत्येषः । मुरुगेपचाररूपः प्रापयति परं पदं पुरुषम् ॥ २२२ ॥ नित्यमपि निरुपलेपः स्वरूपसमवस्थितो निरुपघातः । गगनमित्र परमपुरुषः परमपदे स्फुरति विशदतमः ॥ २२३ ॥ कृतकृत्यः परमपदे परमात्मा सकलविषयविषयात्मा । परमानन्दनिमग्नो ज्ञानमयो नन्दति सदैव ॥ २२४ ॥ एकेनाकर्षन्ती श्लथयन्तो वस्तुतत्त्वमितरेण ।