SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ पुरुषार्थसिद्ध्युपायः । म कदाचनापि चिन्त्याः पापफलं केवलं यस्मात् ॥ १४१ ॥ विद्यावाणिज्यमषीकृषिसेवा शिल्पजीविनां पुंसाम् । पापरोपदेशदानं कदाचिदपि नैव वक्तव्यम् ॥ १४२ ॥ भूखननवृक्ष मोदनशाज्वलदलनाम्बुसेखनादीनि । निःकारणं न कुर्याद्दलफलकुसुमोश्चयानपि च ॥ १४३॥ असिधेनुविषहुताशनलाङ्गलकरचा कार्मुकादीनाम् । वितरणमुपकरणानां हिंसायाः परिहरेद्यत्नात् ॥ १४४॥ रागादिवर्धनानां दुष्टकथानाम बोधबहुलानाम् । न कदाचन कुर्वीत श्रवणार्जन शिक्षणादीनि ॥ १४५|| सर्वानर्थप्रथमं मथनं शौचस्य सझ मायायाः । दूरात्परिहरणीयं चौर्यासत्यास्पदं द्यूतम् ॥ १४६॥ एवंविधमपरमपि ज्ञात्वा मुञ्चत्यनर्थदण्डं यः । तस्यानिशमनवद्यं विजयमहिंसाव्रतं लभते ॥ १४७॥ रागद्वेषत्यागान्निखिलद्रव्येषु साम्यमवलम्ब्य । तत्त्वोपलब्धिमुलं बहुशः सामायिकं कार्यम् || १४ || रजनीदिवयोरन्ते तदवश्यं भावनीयमविचलितम् । इतरत्र पुनः समये न कृतं दोषाय तद्गुणाय कृतम् ॥ १४६ ॥ सामायिकश्रितानां समस्तसावद्ययोगपरिहारात् । भवति महाव्रतमेषामुदयेऽपि चरित्रमोहस्य || १५० ॥ सामायिक संस्कारं प्रतिदिनमारोपितं स्थिरीकर्तुम् । पक्षार्धयोर्द्वयोरपि कर्तव्यो ऽवश्यमुपवासः ॥ १५६ ॥ मुक्तसमस्तारम्भः प्रोषधदिन पूर्व वासरस्यार्थे । उपवासं गृह्णीयान्ममत्वमपहाय देह दी || १५२ ॥ भित्वा विविक्तवसतिं समस्तसावद्ययोगमपनीय । ४७
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy