________________
पुरुषार्थ सिद्ध्य पायः।
४५ नैषः कदापि सङ्गे सर्वोऽप्यतिवतते हिंसां ॥११७॥ उभयपरिग्रहवर्जनमाचार्याः सूचयन्त्यहिंसेति । द्विविधपरिग्रहवहन हिंसेति जिनप्रवचनशाः ॥११॥ हिंसापर्यायत्वात्सिद्धा हिसान्तरङ्गमङ्गेषु । वहिरङ्गे तु नियतं प्रयातु मूच्छेच हिंसात्वम् ॥११॥ एवं न विशेषः स्यादुन्दररिपुहरिणशावकादानाम् । नैवं भवति विशेषत्तेषां मूच्छाविशेषेण ॥१२०॥ हरिततुणाकुरवारिणि मन्दा मृगशावके भवति मूर्छा। उन्दरनिकरान्माथिनि मार्जारे सैव जायते तीवा ॥१२॥ निर्बाध संसिद्ध्ये कार्यविशेषो हि कारणविशेषात् ।
औधस्यखण्डयोरिह माधुयं प्रोतिभेद इव ॥१२२॥ माधुर्यप्रीतिः किल दुग्धे मन्दैव मन्दमाधुर्ये । सैघात्कटमाधुर्य खण्डे व्यपदिश्यते तीता ॥१२३।। तत्वार्थाश्रद्धाने नियुक्त प्रथममेव मिथ्यात्वम् । सम्यग्दर्शनचौराः प्रथमकषायाश्च चत्वारः ॥१२४॥ प्रविहाय च द्वितीयान् देशचरित्रस्य सम्मुखायातः । नियतं ते हि कषाया देशचरित्रं निरुध्यन्ति ॥१२५॥ निजशक्त्या शेषाणां सर्वेषामन्तरङ्गसंगानाम् । कर्तव्यः परिहारो मार्दवशौचादिभावनया ॥१२६॥ बहिरङ्गादपि संगाद्यस्मात्प्रभवत्यसंयमोऽनुचितः । परिवर्जयेदशेषं तमचित्तं पा सचित्तं वा ॥१२७॥ योऽपि न शक्तस्त्यक्तुं धनधान्यमनुष्यवास्तुवित्तादि । सापि तनूकरणीयो निवृत्तिरूपं यतस्तत्त्वम् ॥१२॥ रात्रौ भुनानानां यस्मादनिवारिता भवति हिंसा ।