________________
पुरुषार्थसिद्ध्युपायः। न हि भवति जातु हिंसा प्राणव्यपरोपणादेव ॥४ व्युत्थानावस्थायां रागादीनी वशप्रवृत्तायाम् । नियतां जीवो मा वा धावत्य ने ध्रुवं हिंसा ॥ ४६ ॥ यस्मात्सकषायः सन् हन्त्यात्मा प्रथममात्मनात्मानम् । पश्चाजायेत न घा हिंसा प्राण्यन्तराणांतु ॥४॥ हिंसायामविरमणे हिंसापरिणमनमपि भवति हिंसा । तस्मात्प्रयासयोगे प्राणव्यपरोपणं नित्यम् ॥४॥ सूक्ष्मापि न खलु हिंसा परबस्तुनिवन्धना भवति पुंसः । हिंसायतननिवृत्तिः परिणामविशुद्धये तदपि कार्या ॥EN निश्चयमबुध्यमानो यो निश्च पतस्तमेव संश्रयते । नाशयति करणचरणं स बहिः करणालसो बालः ॥ ५० अविधायापि हि हिंसा हिंसाफलभाजनं भवत्यकः । कृत्वाप्यपरो हिंसां हिंसाफलभाजनं न स्यात् ॥५१॥ एकस्याल्पा हिंसा ददाति काले फलमनल्पम् । अन्यस्य महाहिंसा स्वल्पफला भवति परिपाके ॥५२१ एकस्व सैव तीवं दिति फलं सैव मन्दमन्यस्य । बजति सहकारिणोरपि हिंसा वैचित्र्यमत्र फलकाले ॥५३॥ प्रागेव फलति हिंसा क्रियमाणा फलति फलति च कृतापि। प्रारभ्म कर्तुमकृताऽपि फलति हिंसानुभावेन ॥५४॥ एकः करोति हिंसां भवन्तिफलभागिनो बहवः । बहवो विदधति हिंसां हिंसाफलभुग्भवत्येकः ॥५५॥ कस्यापि दिशति हिंसा हिंसाफलमेकमेव फलकाले। अन्यस्य सैव हिंसा दिशत्यहिंसाफलं विपुलम् ॥५६॥ हिंसाफलमपरस्थ तु ददात्यहिंसा तु परिणामे ।