________________
रत्नकरंड श्रावकाचारः।
सामयिको विनिषद्यस्त्रियोग शुद्धस्त्रिसन्ध्यमभिवन्दी॥१३६॥
४ प्रोषधनियमविधायी. पर्वदिनेषु चतुर्वपि मासे मासे स्वशक्तिमनिगुश। प्रापयनियमविधायी प्रणधिपरः प्रोषधानशतः ॥१४॥
५रूचित्तविरतः, मूलफलशीकशाखाकरीरकन्दप्रसूनबीजानि । नामानि याऽत्ति साऽयं सचित्तविरतो दयामूर्तिः ॥१४॥
६ रात्रिमुक्तित्यागो. अन्नं पानं खाद्यं लेा नानाति यो विभार्याम् । स च रात्रिभुक्तिविरतः सत्त्वेष्वनुकम्पमानमनाः ॥१४२॥
७ ब्रह्मचारी:. -- मलबीज मलयोनि गलन्मलं पूतगन्धिषीमासम् । पश्यन्नङ्गमनङ्गाद्विरमति यो ब्रह्मचारी सः॥ १४३ ॥ .
आरम्भत्यामो. सेवाकृषिवाणिज्यप्रमुखादारम्भतो. व्युपारमति । प्राणातिपातहेतोर्यो सावारम्भविनिवृत्तः ॥ १४४ ॥
परिचितपरिग्रहत्यागो. बाह्येषु दशसु वस्तुषु ममत्वमुत्सृज्य निर्ममत्वरतः । स्वस्थः सन्तोषपरः परिचितपरिप्रहाद्विरतः ॥१४॥
१० अनुमतित्यागी.. अनुमतिरारम्भे वा परिग्रहे वैहिकेषु कर्मसु वा । नास्ति खलु यस्य समधीरनुमतिविरतः स मन्तव्यः ॥१४६॥
११ उत्कृष्टश्रावकः. गृहतो मुनिधनमित्वा गुरूपकण्ठे ब्रतानि परिगृह ।