________________
रत्नक एंड श्रावकाचारः ।
सल्लेखनालक्षणम्.
उपसर्गे दुर्भिक्षे जरसि रुजायां च निःप्रतीकारे । धर्माय तनुविमोचनमाहुः सल्लेखनामार्याः ॥१२२॥ सल्लेखनाया श्रावश्यकता.
३१
अन्तः क्रियाधिकरणं तपःफलं सकलदर्शिनः स्तुवते । तस्माद्यावद्विभवं समाधिमरणे प्रयतितव्यम् ।१२३॥
W
समाधिमरणस्य विधिः
स्नेहं वैरं सङ्गं परिग्रहं चापहाय शुद्धमनाः । स्वजनं परिजनमपि च क्षांत्वा क्षमयेत्प्रियैर्वचनैः ॥ १२४॥ आलोच्य सर्वमेनः कृतकारितमनुमतं च निर्व्याजम् । श्रारोपयेन्महाव्रतमामरणस्थायि निश्शेषम् ॥ १२५ ॥ शोकं भयमवसादं क्लेदं कालुष्यमरतिमपि हित्वा । सखोत्साहमुदीर्य च मनः प्रसाद्यं श्रुतैरमृतैः ॥ १२६ ॥ आहारं परिहाप्य क्रमशः स्निग्धं विवर्द्धयेत्पानम् । स्निग्धं च हापयित्वा खरपानं पूरयेत्क्रमशः ॥ १२७ ॥ खरपानहापनामपि कृत्वा कृत्वोपवासमपि शक्त्या । पञ्चनमस्कारमनास्तनुं त्यज्येत्सर्वयत्नेन ॥ १२८ ॥
सल्लेखनायाः पञ्चातीचाराः
जीवितमरणाशंसे भयमित्रस्मृतिनिदाननामानः । सल्लेखनातिचाराः पञ्च जिनेन्द्रः समादिष्टाः ॥ १२६ ॥ सल्लेखनायाः फलम्.
निःश्रेयसमभ्युदयं निस्तीरं दुस्तरं सुखाम्बुनिधिम् । निः पिवति पीतधर्मा सर्वे दुखेरनालीदः ॥ १३१ ॥