SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ स्तोत्र-संग्रह। • दानफलम. गृहकर्मणापि निश्चितं कर्म विमार्टि खलु गृहविमुक्तानाम् अतिथीनां प्रतिपूजा रुधिरमलं धावते वारि ॥ ११४ ॥ उच्चैर्गोत्रं प्रणते गो दानादुपासनात्पूजा। भक्त सुन्दररूपं स्तवनात्कीर्तिस्तपोनिधिषु ॥ ११५ ॥ क्षितिगतमिव वटबीजं पात्रगतं दानमल्पमपि काले। फलति च्छायाविभवं बहुफलमिष्टं शरीरभृताम् ॥११६॥ - दानभेदाः आहारौषधयोरप्युपकरणावासयोश्च दानेन । वैयावृत्त्यं ब्रुवते चतुरात्मत्वेन चतुरस्राः ॥ ११७ ॥ .. दानफलस्य प्रसिद्धभोक्तारः. श्रीषेणवृषभसेने कौएडेशः शूकरश्च दृष्टान्ताः । वैयावृत्त्यस्यैते चतुर्विकल्पस्य मन्तव्याः ॥ ११ ॥ वैयावृत्ये (दाने ) जिनपूजाविधानम, " देवाधिदेवचरणे परिचरणं सर्वदुःखनिर्हरणम् । कामदुहिकामदाहिनि परिचिनुयादाटतो नित्यम् ॥११॥ पूजायाः फलस्य दृष्टान्तः. अर्हचरणसपर्यामहानुभावं महात्मनामवदत् । भेकः प्रमोदमत्तः कुसुमेनैकेन राजगृहे ॥ १२० ॥ वैयावृत्त्यस्य पञ्चातीचाराः. हरितपिधाननिधाने घनादरास्मरणमत्सरत्वानि । वैयावृत्त्यस्यैते व्यतिक्रमाः पञ्च कथ्यन्ते ॥ १२१ ॥ इति श्रीसमन्तभद्रस्वामिविरचिते रत्नकरण्डकनाम्नि उपासका ध्ययने शिक्षाप्रतवर्णनो नाम पञ्चमः परिच्छेदः ॥५॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy