SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ रत्नकरंडश्रावकाचारः। प्रोषधोपवास शिक्षाघ्रतम्. पर्वण्यष्टम्यां च धातव्यः प्रोषधोपवासस्तु । 'चतुरभ्यवहार्याणां प्रत्याख्यानं सदिच्छाभिः ॥१०६ ।। प्रोषधोपवासे कि त्याज्यं. पश्चानां पापानामलंक्रियारम्भगन्धपुष्पाणाम् । सानाअननस्यानामुपवासे परिहर्ति कुर्यात् ॥ १०७ ॥ उपवासे कि कर्तव्यं. धर्मामृतं सतृष्णः श्रवणाभ्यां पिबतु पाययेद्वान्यान् । ज्ञानध्यानपरो वा भवतूपवसन्नतन्द्रालुः ॥ १० ॥ प्रोषधोपवासः. चतुराहारविसर्जनमुपवासः प्रोषधासकृद्भुक्तिः। स प्रोषधोपवासो यदुपोष्यारम्भमाचरति ॥१०६॥ प्रोषधोपवासस्य पश्चातीचारा:. ग्रहणविसर्गास्तरणान्यदृष्टमृष्टान्यनादरास्मरणे । यत्प्रोषधोपवासे व्यतिलङ्घनपञ्चकं तदिदम् ॥११०॥ - वैयावृत्त्यशिक्षाव्रतम्, दानं वैयावृत्त्यं धर्माय तपोधनाय गुणनिधये । अनपेक्षितोपचारोपक्रियमगृहाय विभवेन ॥ १११॥ पुनश्च. व्यापत्तिव्यपनोदः पदयोः संवाहनं च गुणरागात् । वैयावृत्त्यं यावानुपग्रहोऽन्योऽपि संयमिनाम् ॥११२॥ पुनश्च. नवण्यैः प्रतिपत्तिः सप्तगुणसमाहितेन शुद्धेन । .. अपसूनारम्भाणामार्याणामिष्यते दानम् ॥ ११३॥, ,
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy