________________
रत्नकरंडश्रावकाचारः।
भोगोपभोगपरिमाणवतातीचारा: विषयविषतोऽनुपेक्षानुस्मृतिरतिलौल्यमतितृषानुभवो ।
भोगोपभोगपरमाव्यतिक्रमाः पञ्च कथ्यन्ते ॥६॥ इति श्रीसमन्तभद्रस्वामिविरचिते रत्नकरण्डकनाम्नि उपासका. ध्ययने गुणवतवर्णनो नाम चतुर्थः परिच्छेदः ॥४॥
चत्वारि शिक्षावतानि. .. देशावकाशिक वा सामयिक प्रोषधोपवासी वा। वैय्यावृत्यं शिक्षाब्रतानि चत्वारि शिष्टानि ॥ ११ ॥
देशावकाशिकशिक्षावतम. देशावकाशिकं स्यात्कालपरिच्छेदनेन देशस्य । प्रत्यहमणुव्रतानां प्रतिसंहारो विशालस्य ॥१२॥ ' देशावकाशिकवतस्य क्षेत्रमर्यादा. गृहहारिग्रामाणां क्षेत्रनदीदावयोजनानां च । देशाधकाशिकस्य स्मरन्ति सीम्नां तपोवृद्धाः ॥६॥
देशावकाशिकव्रतस्य कालमर्यादा. संवत्सरमृतुरयनं मासचतुर्मासपतमृतं च । देशावकाशिकस्य प्राहुः कालावधि प्राशाः ॥ ६४ ॥
देशावकाशिकवतस्य सार्थकता. सीमान्तानां परतः स्थूलेतरपञ्चपापसंत्यागात् । देशावकाशिकेन च महाब्रतानि प्रसाध्यन्ते ॥ १५ ॥
देशात्रकाशिकव्रतस्य पश्चातीचारा:. प्रेषणशब्दानयनं रूपाभिव्यक्तिपुद्गलक्षेपौ । देशावकाशिकस्य व्यपदिश्यन्ते त्ययाः पञ्च ॥६६॥