SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ स्तोत्र-संग्रह। पापप्रणालिकाभ्यो विरतिःसंशस्य चारित्रम्हा चारित्रभेदौ. सकलं विकलं चरणंतत्सकलं सर्वसङ्गविरतानाम् । अनगाराणां विकलं सागारागां ससङ्गानाम् ॥५०॥ विकल (गृहस्थ ) चारित्रभेदाः गृहिणां त्रेधा तिष्ठत्यणुगुणशिक्षावतात्मकं चरणम् । पञ्चत्रिचतुर्भेदं त्रयं यथासङ्ख्यमाख्यातम् ॥ ५ ॥ अणुव्रतम् प्राणातिपातवितथव्याहारस्तेयकाममूळेभ्यः । स्थूलेभ्यः पापेभ्यो व्युपरमणमणुव्रतं भवति ॥५२॥ अहिंसाणुव्रतम्. संकल्पात्कृतकारितमननाद्योगत्रयस्य चरसत्त्वान् । न हिनस्ति यत्तदाहुः स्थूलवधाद्विरमणं निपुणाः ॥५३॥ अहिंसाणुव्रतस्य पश्चातीचाराः. छेदनबन्धनपीडनमतिभारारोपणं व्यतीचाराः । आहारवारणापि च स्थूलवधाव्युपरतेः पञ्च ॥५४॥ सत्याणुव्रतम्. स्थूलमलोकं न वदति न परान् वादयति सत्यमपि विपदे। यत्तद्वदन्ति सन्तः स्थूलमृषाबादवैरमणम् ॥ ५५॥ सत्याणुव्रतस्य पश्चातीचारा:. परिवादरहोभ्याख्या पैशून्यं कूटलेखकरणंच। न्यासापहारितापि च व्यतिकमाः पञ्च सत्यस्य ॥५६॥ अचौर्याणुव्रतम्. निहितं वा पतितं वा सुविस्मृतं वा परस्वमविसृष्टम् ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy