SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ इष्टोपदेशः । परः परस्ततो दुःखमात्मैवात्मा ततः सुखं । अत एव महात्मानस्तन्निमित्तं कृतोद्यमाः ॥ ४५ ॥ अविद्वान्पुद्रलद्रव्यं योऽभिनंदति तस्य तत् ।: न जातु जंतोः सामीप्यं चतुर्गतिषु मुंचति ॥ ४६ ॥ आत्मानुष्ठाननिष्ठस्य व्यवहारबहिः स्थितेः । जायते परमानंदः कश्चिद्योगेन योगिनः ॥ ४७ ॥ आनंदो निर्दहत्युद्धं कर्मेन्धनमनारतं । न चासौ विद्यते योगी बहिर्दुः खेष्वचेतनः ॥ ४८ ॥ अविद्याभिदुरं ज्योतिः परं ज्ञानमयं महत् । प्रष्टव्यं तदेष्टव्यं तद्दृष्टव्यं मुमुक्षुभिः ॥ ४९ ॥ जीवोऽन्यः पुद्गलश्चान्य इत्यसौ तत्त्वसंग्रहः । यदन्यदुच्यते किंचित्सोऽस्तु तस्यैव विस्तरः ॥ ५० ॥ इष्टोपदेशमिति सम्यगधीत्य धीमान् 1 मानापमानसमतां स्वमताद्वितन्य । मुक्ताप्रहो विनिवसन्सजने वने वा मुक्तिश्रियं निरुपमामुपयाति भव्यः ॥ ५९ ॥ इति श्रीइष्टोपदेशः समाप्तः । २९७
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy