________________
२९६
प्रथम गुच्छक ।
गुरूपदेशादभ्यासात्सवित्तेः स्वपरांतरं । जानाति यः स जानाति मोक्षसौख्यं निरंतरम् ॥ ३३॥ स्वस्मिन्सदभिलाषित्वादभीष्टज्ञापकत्वतः। स्वयं हितप्रयोक्तृत्वादात्मैव गुरुरात्मनः ॥ ३४॥ नाशो विज्ञत्वमायाति विज्ञो नाशत्वमृच्छति । निमित्तमात्रमन्यस्तु गतेधर्मास्तिकायवत् ॥ ३५ ॥ अभववित्तविक्षेप एकांते तत्त्वसंस्थितिः । अभ्यस्येदभियोगेन योगी तत्वं निजात्मनः ॥ ३६ ॥ यथा यथा समायाति संवित्तौ तत्त्वमुत्तमम् । तथा तथा न रोचंते विषयाः. सुलभा अपि ॥ ३७॥ यथा यथा न रोचंते विषयाः सुलभा अपि । तथा तथा समायाति संवित्तौ तत्त्वमुत्तमम् ॥ ३८ ॥ निशामयति निःशेषमिंद्रजालोपमं जगत् । स्पृहयत्यात्मलाभाय गत्वान्यत्रानुतप्यते ॥ ३९ ॥ इच्छत्येकांतसंवासं निर्जनं जनितादरः । निजकार्यवशाकिचिदुक्त्वा विस्मरति द्रुतं ॥४॥ ब्रुवन्नापि हि न ब्रूने गच्छन्नपि न गच्छति । .... स्थिरीकृतात्मतत्त्वस्तु पश्यन्नपि न पश्यति ॥ ४१॥ किमिदं कीदृशं कस्य कस्मात्त्यावशेषयन् ।। स्वदेहमपि नावैति योगी योगपरायणः ॥ ४२ ॥ यो यत्र निवसन्नास्ते स तत्र कुरुते रति । यो यत्र रमते तस्मादन्यत्र स न गच्छति ॥४३॥ अगच्छंस्तद्विशेषाणामनभिज्ञश्च जायते । अज्ञाततद्विशेषस्तु बद्धयते न विमुच्यते ॥४४॥ -