SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ इष्टोपदेशः । स्वसंवेदन सुव्यक्तस्तनुमात्रो निरत्ययः । अत्यंत सौख्यवानात्मा लोकालोकविलोकनः ॥ २१ ॥ संयम्य करणग्राममेकाग्रत्वेन चेतसः । आत्मानमात्मवान्ध्या येदात्मनैवात्मनि स्थितं ॥ २२ ॥ अज्ञानोपास्तिरज्ञानं ज्ञानं ज्ञानिसमाश्रयः । ददाति यत्तु यस्यास्ति सुप्रसिद्धमिदं वचः ॥ २३ ॥ परीषाद्यविज्ञानादानवस्य निरोधिनी । जायतेऽध्यात्मयोगेन कर्मणामाशु निर्जरा ॥ २४ ॥ कटस्य कर्त्ताहमिति संबंधः स्याद् द्वयोर्द्वयोः । ध्यानं ध्येयं यदात्मैव संबंधः कीदृशस्तदा ॥ २५ ॥ बध्यते मुच्यते जीवः सममो निर्ममः क्रमात् । तस्मात्सर्वप्रयत्नेन निर्ममत्वं विचिंतयेत् ॥ २६ ॥ एकोऽहं निर्ममः शुद्धो ज्ञानी योगीन्द्रगोचरः । बाह्याः संयोगजा भावा मत्तः सर्वेऽपि सर्वथा ॥ २७ दुःखसंदोहभागित्वं संयोगादिह देहिनाम् । त्यजाम्येनं ततः सर्व मनोवाक्कायकर्मभिः ॥ २८ ॥ न मे मृत्युः कुतो भीतिर्न मे व्याधिः कुतो व्यथा । नाहं बालो न वृद्धोऽहं न युवैतानि पुद्गले ॥ २९ ॥ भुक्तोज्झिता मुहुर्मोहान्मया सर्वेऽपि पुद्गलाः । उच्छिष्टेष्विव तेष्वद्य मम विशस्य का स्पृहा ॥ ३० ॥ कर्म कर्महिताबन्धि जीवो जीवहितस्पृहः । स्वस्वप्रभावभूयस्त्वे स्वार्थ को वा न वांछति ॥ ३१ परोपकृतिमुत्सृज्य स्वोपकारपरो भव । उपकुर्वन्परस्यानो दृश्यमानस्य लोकवत् ॥ ३२ ॥ २९५
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy