________________
श्रीअमितगतिसूरिविरचिता द्वात्रिंशतिका ।
(१७) सत्त्वेषु मैत्री गुणिषु प्रमोद क्लिष्टेषु जीवेषु कृपापरत्वम् । मध्यस्थमा विपरीतवृत्तौ सदा ममात्मा विदधातु देव ॥१॥ शरीरतः कर्तुमनन्तशक्तिं विभिन्नमात्मानमपास्तदोषम् । जिनेन्द्र कोषादिव खजयष्टिं तव प्रसादेन ममास्तु शक्तिः ॥२॥ दुःखे सुख वैरिणि बन्धुवर्गे योगे वियोगे भुवने वने वा। निराकृताशेषममत्वबुद्धः समं मनो मेऽस्तु सदापि नाथ ॥३॥ मुनीश!लीनाविव कीलिताविव स्थिरौ निषाताविव बिंबिताविव पादौ त्वदीयो मम तिष्ठतां सदा तमोधुनानी हदि दीपकाविव एकेन्द्रियाद्या यदि देव देहिनः, प्रमादतः संचरता इतस्ततः । क्षता विभिन्ना मिलितानिपीडिता,तदस्तु मिथ्या दुरनुष्ठितं तदा विमुक्तिमार्गप्रतिकूलवर्तिना मया कषायाक्षवशेन दुधिया। चारित्रशुद्धेर्यदकारिलोपनं तदस्तु मिथ्या मम दुष्कृतं प्रभो॥६॥ विनिन्दनालोचनगर्हणैरहं मनोवचःकायकषायनिर्मितम् । निहन्मि पापं भवदुःखकारणं भिषग्विषं मन्त्रगुणैरिवाखिलम् ७
अतिक्रमं यद्विमतेर्व्यतिक्रमं जिनातिचारं सुचरित्रकर्मणः । व्यधामनाचारमपि प्रमादतः प्रतिक्रमं तस्य करोमि शुद्धये ॥६॥