________________
२९२
प्रथम गुच्छक।
त्वया सुमृदितैनसा ज्वलितकेवलौघश्रिया ध्रुवं निरुपमात्मकं सुखमनन्तमव्याहतम् ॥ ४७ ॥ निरन्वयविनश्वरी जगति मुक्तिरिष्टा परैन कश्चिदिह चेष्टते स्वव्यसनाय मूढेतरः । त्वयाऽनु गुणसंहतेरतिशयोपलब्ध्यात्मिका स्थतिः शिवमयी प्रवचने तव ख्यापिता ॥ ४८ ॥ इयत्यपि गुणस्तुतिः परमनिवृतेः साधनी भवत्यलमतो जनो व्यवसितश्च तत्काङ्गया। विरस्यति च साधुना रुचिरलोभलाभे सतां मनोऽभिलषिताप्तिरेव ननु च प्रयासावधिः ॥४९॥ इति मम मतिवृत्या संहतिं त्वद्गुणानामनिशममितशक्ति संस्तुवानस्य भक्त्या। . सुखमनधमनंतं स्वात्मसंस्थं महात्मन् । जिन ! भवतु.महत्या केवलं श्रीविभूत्या ॥ ५० ॥
इति श्रीनिखिलतार्किकचूडामणि विद्यानंदिस्वामिप्रणीतं बृहत्पंचनमस्कारस्तोत्रापरनामधेयं पात्रकेसरिस्तोत्रं
. . समातम्।