SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ पात्रकेसरिस्तोत्रम् | अथायमपि सत्पथस्तव भवेद्वृथा नग्नता न हस्तसुलभे फले सति तरुः समारुह्यते ॥ ४१ ॥ परिग्रहवतां सतां भयमवश्यमापद्यते प्रकोपपरिहिंसने च परुषानृतव्याहृती | ममत्वमथ चोरतो स्वमनसश्च विभ्रान्तता कुतो हि कलुषात्मनां परमशुक्लसद्ध्यानता ॥४२॥ स्वभाजनगतेषु पेयपरिभोज्यवस्तुध्वमी यदा प्रतिनिरीक्षितास्तनुभृतः सुसूक्ष्मात्मिकाः । तदा क्वचिदपोज्झने मरणमेव तेषां भवदथाऽप्यभिनिरोधनं बहुतरात्मसंमूच्छेनम् ॥ ४३ ॥ दिगम्बरतया स्थिताः स्वभुजभोजिनो ये सदा प्रमादरहिताशयाः प्रचुरजीवहत्यामपि । न बन्धफलभागिनस्त इति गम्यते येन ते प्रवृत्तमनुबिभ्रति स्वबलयोग्यमद्याप्यमी ॥ ४४ ॥ यथागमविहारिणामशन पानभक्ष्यादिषु प्रयत्नपरचेतसामविकलेन्द्रियालोकिनाम् । कथंचिदसुपीडनाद्यदि भवेदपुण्योदयस्तपोऽपि वध एव ते स्वपरजीवसंतापनात् ॥ ४५ ॥ मरुज्ज्वलन भूपयः सु नियमात्कचिद्युज्यते परस्परविरोधितेषु विगतासुता सर्वदा । प्रमादजनितागसां कचिदपोहनं स्वागमात्कथं स्थितिभुजां सतां गगनवाससां दोषिता ॥ ४६ ॥ परैरनध निर्वृतिः स्वगुणतत्त्व विध्वंसनं ब्यघोषि कपिलादिभिश्च पुरुषार्थविभ्रंशनं । २९१.
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy