________________
. स्तोत्र--संग्रह। न सन्त्यसति सम्यक्त्वे बीजाभावे तरोरिव॥३२॥ गृहस्थो मोक्षमार्गस्थो निर्मोहो नैव मोहवान् । ' अनगारो गृही श्रेयान् निर्मोहो मोहिनो मुनेः ॥३३॥ नसम्यक्त्वसमं किश्चित्काल्ये त्रिजगत्यपि । श्रेयो श्रेयश्च मिथ्यात्वसमं नान्यत्तनूभृताम् ॥३४॥
पार्या. सम्यग्दर्शनशुद्धानारकतिर्यङ्नपुंसकस्त्रीत्वानि । दुष्कुलविकृताल्पायुर्दरिद्रतां च ब्रजन्ति नाप्यवृतिकाः।।३।। श्रोजस्तेजोविद्यावीर्ययशोवृद्धिविजयविभवसनाथाः । महाकुलाः महार्था मानवतिलका भवन्ति दर्शनपूनाः ॥३६॥ अष्टगुणपुष्टितुष्टा दृष्टिविशिष्टाः प्रकृष्टशोभाजुष्टाः। अमराप्सरसांपरिषदि चिरं रमन्ते जिनेन्द्रभक्ताःस्वर्ग||३७॥ नवनिधिसप्तद्वयरत्नाधीशाः सर्वभूमिपतयश्चक्रम् । वर्तयितुं प्रभवन्ति स्पष्टदृशः क्षत्रमौलिशेखरचरणाः ॥३॥ श्रमरासुरनरपतिभिर्यमधरपतिभिश्च नूतपादाम्भोजाः। दृष्टया सुनिश्चितार्था वृषचक्रधरा भवन्ति लोकशरण्याः॥३६॥ शिवमजरमरुजमक्षयमव्यावाचं विशोकभयशङ्कम् । काष्ठागतसुखविद्याविभवं विमलं भजन्ति दर्शनशरणाः॥४०॥ देवेन्द्रचक्रमहिमानममेयमानम्
. राजेन्द्रचक्रमवनीन्द्रशिरोर्चनीयम् ।। धर्मेन्द्रचक्रमधरीकृतसर्वलोकम्
लब्ध्वा शिवं च जिनभक्तिरुपैति भव्यः।।४।। इति श्रीसमन्तभद्रखामिविरचिते रत्नकरण्डनाम्नि उपासका.
ध्ययने सम्यग्दर्शनवर्णनो नाम प्रथमः परिच्छेदः ॥१॥