SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ रत्नकरंडधावकाचारः । देवमूढ़ता. वरोपलिप्सयाशावान् रागद्वेषमलीमसः । देवता यदुपासीत देवतामूढमुच्यते ॥ २३ ॥ गुरुमूढ़ता. सग्रन्थारम्भहिंसानां संसारावर्तवर्तिनाम् । पाखण्डिनं पुरस्कारो ज्ञेयं पाखरिडमोहनम् ||२४|| श्रष्टमदनामानि. ज्ञानं पूजां कुलं जातिं बलमृद्धिं तपो वपुः । अष्टावाश्रित्य मानित्वं स्मयमा हुर्गतस्मयाः ॥ २५ ॥ मदस्यानिष्टत्वम्. स्मयेन योऽन्यानत्येति धर्मस्थान् गर्विताशयः । सोऽत्येति धर्ममात्मीयं न धर्मो धार्मिकैर्विना ||२६|| यदि पापनिरोधोऽन्यसम्पदा किं प्रयोजनम् । अथ पापास्स्रवोऽस्त्यन्यसम्पदा किं प्रयोजनम् ||२७|| सम्यग्दर्शनमहिमा. सम्यग्दर्शनसम्पन्नमपि मातङ्गदेहजम् । देवा देव विदुर्भस्मगूढाङ्गारान्तरौजसम् ॥ २८ ॥ श्वापि देवोऽपि देवः श्वा जायते धर्मकिल्बिषात्। कापि नाम भवेदन्या सम्पद्धर्माच्छरीरिणाम् ||२६|| भयाशास्नेहलोभाच्च कुदेवागमलिङ्गिनाम् । प्रणामं विनयं चैव न कुर्युः शुद्धदृष्टयः ॥ ३० ॥ दर्शनं ज्ञानचारित्रात्साधिमानमुपाश्नुते । दर्शनं कर्णधारं तन्मोक्षमार्गे प्रचक्षते ॥ ३१ ॥ विद्यावृत्तस्य संभूतिस्थितिवृद्धिफलोदयाः । १६
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy