SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २६३ नयविवरणम् । क्रियाभेदेऽपि चाभिन्नमर्थमभ्युपगच्छतः । नैवंभूतः प्रभूतार्थनयः समभिरूढतः॥ १०५ ॥ नेगमप्रातिकूल्येन सङ्ग्रहः संप्रवर्तते । ताभ्यां वाचामिहाभीष्टा सप्तभङ्गी विभागतः ॥ १०६ ॥ नैगमव्यवहाराभ्यां विरुद्धाभ्यां तथैव सा। स्यान्नैगमर्जुसूत्राभ्यां तादृग्भ्यामविगानतः ॥ १०७ ॥ सशब्दाभेगमादन्यायुक्तात्समभिरूढतः । सैवंभूताच्च सा शेया विधानप्रतिषेधगा ॥ १०८ ॥ सङ्ग्रहादेश्च शेषेण प्रतिपक्षेण गम्यताम् । तथैव व्यापिनी सप्तभङ्गी नयविदा मता ॥ १०९ ॥ विशेषैरुत्तरैः सर्वैर्नयानामुदितात्मनाम् । परस्परविरुद्धार्थैर्द्वन्द्ववृत्तिर्यथायथम् ॥ ११० ॥ प्रत्येया प्रतिपर्यायमविरुद्धा तथैव सा । प्रमाणसप्तभङ्गी च तां विना नाभिवागतिः॥ १११ ॥ सर्वे शब्दनयास्तेन परार्थप्रतिपादने । स्वार्थप्रकाशने मातुरिमे ज्ञाननयाः स्थिताः ॥ ११२ ॥ तैर्नीयमानवस्त्वंशाः कथ्यन्तेऽर्थनयाश्च ते । विधैव व्यवतिष्ठन्ते प्रधानगुणभावतः ॥ ११३ ॥ यत्र प्रवर्ततेऽर्थीशे नियमादुत्तरो नयः । पूर्वः पूर्वो नयस्तत्र वर्तमानो न वार्यते ॥ ११४॥ सहस्रेऽष्टशती यद्वत्तस्यां पञ्चशती मता। पूर्वसंख्योत्तरत्र स्यात्संख्यायामविरोधतः ॥ ११५ ॥ पूर्वत्र नोत्तरा संख्या यथा जातु प्रवर्त्तते। तथोत्तरनयः पूर्वनयार्थे सकले सदा ॥ ११६ ॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy