________________
२६२
प्रथमगुच्छक।
इन्द्रः पुरन्दरः शक्र इत्याद्या भिन्नगोचराः। शब्दा विभिन्नशब्दत्वाद्वाजिवारणशब्दवत् ॥ ९३ ॥ तक्रियापरिणामोऽर्थस्तथैवति विनिश्चयात् । एवंभूतेन नीयेत क्रियान्तरपराङ्मुखः ॥ ९४॥ यो यत्क्रियार्थमाचष्टे नासावन्यत्क्रियां ध्वनिः । पठतीत्यादिशब्दानां पाठाद्यर्थप्रसंजनम् ॥९५ ॥ इत्यन्योऽन्यमपेक्षायां सन्तः शब्दादयो नयाः । निरपेक्षाः पुनस्ते स्युस्तदाभासा विरोधतः ॥ ९६ ॥ तत्र सूत्रपर्यन्ताश्चत्वारोऽर्थनया मताः।। श्रयः शब्दनयाः शेषाः शब्दवाच्यार्थगोचराः ॥९७ ॥ पूर्वः पूर्वनयो भूमविषयः कारणात्मकः । परः परः पुनः सूक्ष्मगोचरो हेतुमानिह ॥ ९८ ॥ सन्मात्रविषयत्वेन संग्रहस्य न युज्यते । महाविषयता भावा-भावार्थान्नैगमानयात् ॥९९ ॥ यथाहि सति संकल्पस्तथैवासति विद्यते । तत्र प्रवर्त्तमानस्य नैगमस्य महार्थता ॥ १० ॥ सङ्ग्रहाद्यवहारोऽपि स्याद्विशेषावबोधकः। न भूमविषयोऽशेषसत्समूहोपदर्शिनः ॥ १०१ ॥ नर्जुसूत्रः प्रभूतार्थो वर्तमानार्थगोचरः । कालत्रितयवृत्यर्थगोचराद् व्यवहारतः ॥ १०२ ॥ कालादिभेदतोऽप्यर्थमभिन्नमुपगच्छतः । नर्जुसूत्रान्महार्थोऽत्र शब्दस्तविपरीतवित् ॥ १०३ ॥ शब्दात्पर्यायभेदेनाभिन्नमर्थमभीच्छतः । न स्यात्समभिरूढोऽपि महार्थस्तद्विपर्ययः ॥ १०४ ॥