________________
नयविवरणम् ।
२६१
सामानाधिकरण्यं च विशेषणविशेष्यता। साध्यसाधनभावो वा काधाराधेयतापि च ॥ ८१॥ संयोगो विप्रयोगो वा क्रियाकारकसंस्थितिः। सादृश्यं वैसादृश्यं वा स्वसन्तानेतरस्थितिः ॥ २॥ समुदायः क प्रेत्यभावादिद्रव्यस्य निहवे । बन्धमोक्षव्यवस्था वा सर्वदेष्टा प्रसिद्धितः ॥ ८३ ॥ कालादिभेदतोऽर्थस्य भेदं यः प्रतिपादयेत् । सोऽत्र शब्दनयः शब्दप्रधानत्वादुदाहृतः॥ ८४॥ विश्वदृश्वास्य भविता सूनुरित्येकमाता। पदार्थ कालभेदेऽपि व्यहारानुरोधतः ॥ ८५ ॥ करोति क्रियते पुष्यस्तारकापोऽम्भ इत्यपि। कारकव्यक्तिसंख्यानां भेदोऽपि च परे जनाः ॥ ८६ ॥ एहि मन्ये रथेनेत्यादिकसाधनभिद्यपि । संतिष्ठेत प्रतिष्ठेतेत्याद्युपग्रहभेदने ॥ ८७ ॥ तन्न श्रेयापरीक्षायामिति शब्दः प्रकाशयेत् । कालादिभेदनेऽप्यर्थाभेदनेऽतिप्रसङ्गतः ॥ ८८ ॥ तथा कालादिनानात्वकल्पनं निष्प्रयोजनम् । सिद्धेः कालादिनैकेन कार्यस्येष्टस्य तत्त्वतः ॥ ८९ ॥ कालाद्यन्यतमस्यैव कल्पनं तैर्विधीयताम् । येषां कलादिभेदेऽपि पदार्थकत्वनिश्चयः ॥१०॥ शब्दः कालादिर्भिभिन्नोऽभिन्नार्थप्रतिपादकः । कालादिभिन्नशब्दत्वात्ताक्सिद्धान्यशब्दवत् ॥९१ ॥ पर्यायशब्दभेदेन भिन्नार्थस्याभिरोहणात् । नयः समभिरूढः स्यात्पूर्ववच्चास्य निर्णयः ॥१२॥