SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २६० प्रथमगुच्छक। अभिन्नं व्यक्तभेदेभ्यः सर्वथा बहुधानकम् । महासामान्यमित्युक्तिः केषांचिद् दुर्नयस्तथा ॥ ६९ ॥ शब्दब्रह्मेति चान्येषां पुरुषाद्वैतमित्यपि । संवेदनाद्वयं वेति प्रायशोऽन्यत्र दर्शितम् ॥ ७० ॥ द्रव्यत्वं सकलद्रव्यव्याप्यभिप्रेति चापरः । पर्यायत्वं च निःशेषपर्यायव्यापि संग्रहः ॥ ७१ ॥ तथैवावान्तरान्भेदान्संगृह्येकत्वतो बहुः । वर्ततेऽयं नयः सम्यक् प्रतिपक्षा निराकृतिः ॥ ७२ ॥ स्वव्यक्त्यात्मकतैकान्तस्तदाभासोऽप्यनेकधा। प्रतीतिबाधितो बोध्यो निःशेषोऽप्यनया दिशा ॥७३॥ संग्रहेण गृहीतानामर्थानां विधिपूर्वकम् । योऽवहारो विभागः स्याद् व्यवहारनयः स नः ॥७॥ स चानेकप्रकारः स्यादुत्तरः परसङ्ग्रहात् । यत्सत्तद्रव्यपर्यायाविति प्रागृजुसूत्रतः ॥ ७९ ॥ कल्पनारोपितद्रव्यपर्यायप्रविभागभाक् । प्रमाणबाधितोऽन्यस्तु तदाभासोऽवसीयताम् ॥ ७६ ॥ अजुसूत्रः क्षणध्वंसि वस्तु सत्सूत्रयेहजुः । प्राधान्येन गुणीभावाद्व्यस्यानर्पणात्सतः॥ ७७॥ निराकरोति यो द्रव्यं व्यवहारश्च सर्वथा । सदाभासोऽभिमन्तव्यः प्रतीतेरपलापतः ॥ ७८॥ कार्यकारणता नास्ति ग्राह्यग्राहकतापि वा। वाच्यवाचकता चेति कार्थसाधनदूषणम् ॥ ७९ ॥ लोकसंवृत्तिसत्यं च सत्यं च परमार्थता। कैवं सिवेद्यदाश्रित्य बौद्धानां धर्मदेशना ।। ८० ॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy