________________
नयविवरणम् ।
शुद्धद्रव्यार्थ पर्याय नैगमोऽस्ति परो यथा । सत्सुखं क्षणिकं सिद्धं संसारेऽस्मिन्नितीरणम् ॥५७॥ सत्त्वं सुखार्थपर्यायाद्भिन्नमेवेति संमतिः । दुर्भीतिः स्यात्सवाधत्वादिति नीतिविदो विदुः ॥ ५८ ॥ क्षणमेकं सुखी जीवो विषयीति विनिश्वयः । विनिर्दिष्टोऽर्थ पर्यायाशुद्धद्रव्य गनैगमः ॥ ५९ ॥ सुखजीवभिदोक्तिस्तु सर्वथा मानबाधिता । दुर्नीतिरेव बोद्धव्या शुद्धबोधैरसंशयम् ॥ ६० ॥ गोचरीकुरुते शुद्धद्रव्यव्यञ्जनपर्ययौ । नैगमोsन्यो यथासद्वित्सामान्यमिति निर्णयः ॥ ६१ ॥ विद्यते चापरोऽशुद्धद्रव्यव्यञ्जनपर्ययौ ।
अर्थीकरोति यः सोऽत्र नागुणीति निगद्यते ॥ ६२ ॥ भेदाभिसन्धिरत्यन्तं प्रतीतेरपलापकः । पूर्ववन्नैगमाभासः प्रत्येतव्यो तयोरपि ॥ ६३ ॥ नवधा नैगमस्यैवं ख्याते पञ्चदशोदिताः । नयाः प्रतीतिमारूढाः संग्रहादिनयैः सह ॥ ६४ ॥ एकत्वेन विशेषाणां ग्रहणं संग्रहो नयः । सजातेरविरोधेन दृष्टेष्टाभ्यां कथंचन ॥ ६५ ॥ समेकीभावसम्यक्त्वे वर्तमानो हि गृह्यते । निरुक्त्या लक्षणं तस्य तथा सति विभाव्यते ॥ ६६ ॥ शुद्धद्रव्यमभिप्रेति सन्मात्र संग्रहः परः । स चाशेषविशेषेषु सदौदासीन्यभागिह ॥ ६७ ॥ निराकृतविशेषस्तु सत्ताद्वैतपरायणः ।
तदाभासः समाख्यातः सद्भिर्दृष्टेष्टबाधनात् ॥ ६८ ॥
२५९