________________
२५८
प्रथमगुच्छक।
यथा प्रतिक्षणध्वंसिसुखसंविच्छरीरिणि । इति सत्तार्थपर्याया विशेषणतया गुणाः ॥ ४५ ॥ 'संवेदनार्थपर्यायो विशेष्यत्वेन मुख्यताम् प्रतिगच्छन्नभिप्रेतो नान्यथैवं वचो गतिः ॥ ४६ ॥ सर्वथा सुखसंवित्यो नात्वेऽभिमतिः पुनः । स्वाश्रयाश्चार्थपर्यायनैगमाभोऽप्रतीतितः ॥ ४७ ॥ कश्चिद्यानपर्यायौ विषयीकुरुतेजसा । गुणप्रधानभावेन धर्मिण्येकत्र नैगमः ॥ ४८ ॥ सच्चैतन्यं न रीत्येवं सत्त्वस्य गुणभावतः । प्रधानभावतश्चापि चैतन्यस्याभिसन्धितः ॥ ४९ ॥ तयोरत्यन्तभेदोक्तिरन्योऽन्यं स्वाश्रयादपि । शेयो व्यञ्जनपर्यायनैगमाभोऽविरोधतः ॥५०॥ अर्थव्यञ्जनप-यौ गोचरीकुरुते परः। धार्मिके सुखजीवत्वमित्येवमनुरोधतः ॥५१॥ भिन्ने तु सुखजीवत्वे योऽभिमन्येत सर्वथा। सोऽर्थव्यञ्जनपर्यायनैगमाभास एव नः ॥ १२ ॥ शुद्धं द्रव्यमशुद्धं च तथाभिप्रेति यो नयः। स तन्नैगम एवेह संग्रहव्यवहारजः॥५३ ॥ स द्रव्यं सकलं वस्तु तथान्वयविनिश्चयात् । इत्येवमवगन्तव्यस्तद्भेदोक्तिस्तु दुर्नयः ॥ ५४ ॥ यस्तु पर्यायवद्रव्यं गुणवद्वेति निर्णयः । व्यवहारनयाजातः सोऽशुद्धद्रव्यनगमः ॥ ५५ ॥ तद्भदैकान्तवादस्तु तदाभासोऽनुमन्यते । तथोकेर्बहिरन्तश्च प्रत्यक्षादिविरोधतः ॥ ५६ ॥