________________
२५७
नयविवरणम् । तत्र संकल्पमात्रस्य ग्राहको नैगमो नयः।। सोपाधिरित्यशुद्धस्य द्रव्यार्थस्याभिधानतः ॥ ३३ ॥ संकल्पो नैगमस्तत्र भवोऽयं तत्प्रयोजनः । यथा प्रस्थादिसंकल्पस्तदभिप्राय इष्यते ॥ ३४ ॥ नन्वयं भाविनी संज्ञां समाश्रित्योपचर्यते । अप्रस्थादिषु तद्भावस्तन्दुलेन्वोदनादिवत् ॥३५॥ इत्यसद्वहिरर्थेषु तथानध्यवसानतः। स्ववेद्यमानसंकल्पे सत्येवास्य प्रवृत्तितः ॥ ३६ ॥ यद्वा नैकं गमो योऽत्र स सतां नैगमो मतः। धर्मयोधर्मिणोर्वापि विवक्षा धर्मधर्मिणोः ॥ ३७ ॥ प्रमाणात्मक एवायमुभयग्राहकत्वतः। इत्ययुक्तमिह शप्तेः प्रधानगुणभावतः ॥ ३८ ॥ प्राधान्येनोभयात्मानमर्थ गृह्णाद्ध वेदनम् । प्रमाणं नान्यदित्येतत्प्रपञ्चेन निवेदितम् ॥ ३९ ॥ संग्रहे व्यवहारे वा नान्तर्भावनमीक्ष्यते । नैगमस्य तयोरेकवस्त्वंशप्रवणत्वतः॥४०॥ नर्जुसूत्रादिषु प्रोक्तहेतोरेवेति षण्णयाः। संग्रहादय एवेह न वाच्या प्रपरीक्षकैः॥४१॥ सप्तवेते तु युज्यन्ते नैगमस्य नयत्वतः । तस्य त्रिभेदताख्यानात्कश्चिदुक्ता नया नव ॥ ४२ ॥ तत्र पर्यायगस्त्रेधा नैगमो द्रव्यगो द्विधा । द्रव्यपर्यायगः प्रोक्तश्चतुर्भेदो ध्रुवं बुधैः ॥४३॥ अर्थपर्याययोस्तावद्गुणमुख्यस्वभावतः । कचिवस्तुन्यभिप्रायः प्रतिपत्तुः प्रजायते ॥४४॥