SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २५६ प्रथम गुच्छक । नयो नयौ नयाश्चेति वाक्यभेदेन योजिताः। नेगमादय इत्येवं सर्वसंख्याभिसूचनात् ॥ २१ ॥ निरुक्त्या लक्षणं लक्ष्य तत्सामान्यविशेषतः। नीयेते गम्यते येन श्रुतार्थाशः स नो नयः ॥ २२ ॥ तदंशी द्रव्यपर्यायलक्षणौ सव्यपेक्षणौ। नीयते तुर्यकाभ्यां तु तौ नयाविति निश्चिती ॥ २३ ॥ गुणः पर्यय एवात्र सहभावी विभावितः । इति तद्वोचरो नान्यस्तृतीयोऽस्ति गुणार्थकः ॥ २४ ॥ प्रमाणगोचरार्थीशा नीयन्ते यैरनेकधा। ते नया इति विख्याता ज्ञाता मूलनयद्वयात् ॥ २५ ॥ द्रव्यपर्यायसामान्यविशेषपरिबोधकाः । न मूलं नैगमादीनां नयाश्चत्वार एव तु ॥ २६ ॥ सामान्यस्य पृथक्त्वेन द्रव्यादनुपपत्तितः। सादृश्यपरिणामस्य तथा व्यञ्जनपर्ययात् ॥ २७ ॥ वैसादृश्यविवर्तस्य विशेषस्य च पर्यये । अन्तर्भावाद्विभाव्यते द्वौ तन्मूलनयाविति ॥ २८ ॥ नामादयोऽपि चत्वारस्तन्मूलं नेत्यतो गतम् । द्रव्यक्षेत्रादयस्तेषां द्रव्यपर्यायगत्वतः ॥ २९ ॥ भवान्विता न पञ्चैते स्कन्धा वा परिकीर्तिताः । रूपादयो त एवेह तेऽपि हि द्रव्यपर्ययौ ॥ ३०॥ तथा द्रव्यगुणादीनां षोढ़ात्वं न व्यवस्थितम् । षद् स्युर्मूलनया येन द्रव्यपर्यायगा हि ते ॥ ३१ ॥ ये प्रमाणादयो भावाः प्रधानादय एव वा। ते नैगमादिभेदानामर्थानां परनीतयः ॥ ३२ ॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy