________________
अथ नयविवरणम् ।
( १३ )
सूत्रे नामादिनिक्षिप्ततत्त्वार्थाधिगमः स्थितः। कात्स्यतो देशतो वापि सप्रमाणनयैरिह ॥ १ ॥ प्रमाणं च नयाश्चेति द्वन्द्वे पूर्वनिपातनम् । कृतं प्रमाणशब्दस्याभ्यर्हितत्वेन बह्वचः ॥२॥ प्रमाणं सकलादेशि नयादभ्यर्हितं मतम् । विकलादशिनस्तस्य वाचकोऽपि तथोच्यते ॥३॥ स्वार्थनिश्चायकत्वेन प्रमाणं नय इत्यसत् । स्वाथैकदेशनिर्णातिलक्षणो हि नयः स्मृतः ॥ ४॥ स्वार्थाशस्यापि वस्तुत्वे तत्परिच्छेदको नयः । प्रमाणमन्यथा मिथ्याशानं प्राप्तः स इत्यसत् ॥ ५ ॥ नायं बस्तु न चावस्तु वस्त्वंशः कथ्यते यतः। नासमुद्रः समुद्रो वा समुद्रांशो यथोच्यते ॥ ६ ॥ तन्मात्रस्य समुद्रत्वे शेषांशस्यासमुद्रता।' समुद्रबहुता वा स्यात्तत्वे वास्तु समुद्रवित् ॥ ७ ॥ तत्रांशिन्यपि निःशेषधर्माणां गुणता गती। द्रव्यार्थिकनयस्यैव व्यापारान्मुख्यरूपतः॥८॥