________________
युक्त्यनुशासनम् ।
२५३ स्थेयाजातजयध्वजाप्रतिनिधिः प्रोद्भूतभूरिप्रभुः प्रध्वस्ताखिलदुर्नयद्विषदिभः सन्नीतिसामर्थ्यतः। सन्मार्गस्त्रिविधः कुमार्गमथनोऽहन्वीरनाथः श्रिये शश्वत्संस्तुतिगोचरोऽनघधियां श्रीसस्यवाक्याधिपः ॥१॥ श्रीमद्वीरजिनेश्वरामलगुणस्तोत्रं परीक्षेक्षणैः साक्षात्स्वामिसमन्तभद्रगुरुभिस्तत्त्वं समीक्ष्याखिलं । प्रोक्तं युक्तनुशासनं विजयिभिः स्याद्वादमार्गानुगैविद्यानन्दबुधैरलंकृतमिदं श्रीसत्यवाक्याधिपः ॥२॥
इति श्रीसमन्तभारस्वामिविरचितं युक्त्यनुशासनं समासम्।