________________
२५२
प्रथम गुच्छक ।
नानासदेकात्मलमाभयं चेदन्यत्वमद्विष्टमनात्मनोक। विकल्पशून्यत्वमवस्तुनश्चेत्तस्मित्रमेये क खलु प्रमाणं ॥४॥ व्यावृत्तिहीमान्वयतो न सिद्विपर्ययेऽप्यवितयेऽपि साध्यं । अतव्युदासाभिनिवेशवादः पुराभ्युपेतार्थविरोधवादः ॥१७॥ अनात्मनानात्मगतेरयुक्तिर्वस्तुन्ययुक्तर्यदि पक्षसिद्धिः। अवस्तुयुक्त प्रतिपक्षसिद्धिर्न च स्वयं साधनरिक्तसिद्धिः॥५८॥ निशापितस्तैः परशुः परघ्नः स्वमूनि निर्भेदभयानभिः । वैतण्डिकैयैः कुसृतिः प्रणीता मुने भवच्छासनदृप्रमूढः ॥१९॥ भवत्यभावोऽपि च वस्तुधर्मो भावान्तरं भाववदर्हतस्ते । प्रमीयते च व्यपदिश्यते च वस्तुव्यवस्थाङ्गममेयमन्यत ॥६॥ विशेषसामान्यविषक्तभेदविधिव्यवच्छेदविधायि वाक्यं । अभेदबुद्धरविशिष्टता स्याद्यावृत्तिबुद्धेश्च विशिष्टता ते ॥६॥ सर्वान्तवत्तद्गुणमुख्यकल्पं सर्वान्तशून्यं च मिथोऽनपेक्षं। सर्वापदामन्तकरं निरन्तं सर्वोदयं तीर्थमिदं तवैव ।। ६२ ॥ कामं द्विषन्नप्युपपत्तिचक्षुः समीक्षतां ते समहष्टिरिष्टं । त्वयि ध्रुवं खण्डितमानशृङ्गो भवत्यभद्रोऽपि समन्तभद्रः ॥३॥
न रागानः स्तोत्रं भवति भवपाशच्छिदि मुनौ न चान्येषु वेषादपगुणकथाभ्यासखलता। किमु न्यायान्यायप्रकृतगुणदोषज्ञमनसां हितान्वेषोपायस्तव गुणकथासङ्गगदितः ॥ ६४ ॥ इति स्तुत्यः स्तुत्यस्त्रिदशमुनिमुख्यैः प्रणिहितैः स्तुतः शक्त्या श्रेयापदमधिगतस्त्वं जिन मया। महावीरो वीरो दुरितपरसेनाभिविजये विधेया मे भक्तिः पथि भवत एवाप्रतिनिधौ ॥६५॥