________________
थुक्त्यनुशासनम् ।
२५१
विरोधि चाऽभेद्यविशेषभावात् तद्द्योतनः स्याहुणतो निपातः । विपाद्यसन्धिश्च तथाङ्गभावात् अवाच्यताश्रायस लोप हेतुः ॥४४॥ तथा प्रतिज्ञाशयतो प्रयोगः सायर्थ्यतो वा प्रतिषेधयुक्तिः । इति त्वदीया जिन नागदृष्टिः पराप्रधृष्या परधर्षिणी च ॥ ४५ ॥ विधिर्निषेधोऽनभिलाप्यता च त्रिरेकशस्त्रिद्विश एक एव ।
यो विकल्पास्तव सप्तधामी स्याच्छन्दनेयाः सकलेऽर्थभेदे ४६ स्यादित्यपि स्याद्गुणमुख्यकल्पैकान्तो यथोपाधिविशेषवीक्ष्यः । तत्त्वं त्वनेकान्तमशेषरूपं द्विधाभवार्थव्यवहारवत्त्वात् ॥ ४७ ॥ न द्रव्यपयपृथग्व्यवस्थाद्वैयात्म्यमेकार्पणया विरुद्धं । धर्मश्व धर्मी च मिथस्त्रिधेमौ न सर्वथा तेऽभिमतौ विरुद्ध ॥ ४८ ॥ दृष्टागमाभ्यामविरुद्धमर्थप्ररूपणं युक्त्यनुशासनं ते । प्रतिक्षणं स्थित्युदयव्ययात्मतत्त्वव्यवस्थं सदिहार्थरूपं ॥ ४९ ॥ नानात्मतामप्रजहत्तदेकमेकात्मतामप्रजहच्च नाना । अङ्गाङ्गिभावात्तव वस्तु तद्यत् क्रमेण वाग्वाच्यमनन्तरूपं ॥ ५०॥ मिथोऽनपेक्षाः पुरुषार्थहेतुर्नाशा न चांशी पृथगस्ति तेभ्यः । परस्परेक्षाः पुरुषार्थहेतुर्दष्टा नयास्तद्वदसि क्रियायां ॥ ५१ ॥ एकान्तधर्माभिनिवेशमूला रागादयोऽहंकृतिजा जनानां । एकान्तहानाच्च स यत्तदेव स्वाभाविकत्वाच्च समं मनस्ते ॥५२॥ प्रमुच्यते च प्रतिपक्षदूषी जिन त्वदीयैः पटुसिंहनादैः । एकस्य नानात्मतयाऽज्ञवृत्तेस्तो बन्धमोक्षौ स्वमतादबाह्यौ ॥५३॥ आत्मान्तराभावसमानता न वागास्पदं स्वाश्रयभेदहीना । भावस्य सामान्यविशेषवत्त्वादैक्ये तयोरन्यतरनिरात्म ||१४|| अमेयमश्लिष्टममेयमेव भेदेऽपि तद्वृत्त्यपवृत्तिभावात् । वृत्तिश्च कृत्स्नांशविकल्पतो न मानं च नानन्तसमाश्रयस्य ॥५५॥