________________
युक्त्यनुशासनम् ।
२४९
अशासदांसि वचांसि शास्ता शिष्याश्च शिष्टा वचनैर्न तेतैः। अहो इदं दुर्गतमं तमोऽन्यत् त्वया विनाश्रायसमार्य किंतत्॥२१॥ प्रत्यक्षबुद्धिः क्रमते न यत्र तल्लिङ्गगम्यं न तदर्थलिङ्गम् । वाचो न वा तद्विषयेण योगः का तद्गतिः कष्टमशृण्वतां ते॥२२॥ रागाद्यविद्याऽनलदीपनं च विमोक्षविद्यामृतशासनं च । न भिद्यते संवृतिवादिवाक्यं भवत्प्रतीपं परमार्थशून्यं ॥ २३ ॥ विद्याप्रसृत्यै किल शील्यमाना भवत्यविद्या गुरुणोपदिष्टा । अहो त्वदीयोक्त्यनभिशमोहो यजन्मने यत्तदजन्मने तत्॥२४॥ अभावमात्रं परमार्थवृत्तेः सा संवृतिः सर्वविशेषशून्या । तस्या विशेषौ किल बन्धमोक्षौ हेत्वात्मनेति त्वदनाथवाक्यं ॥२५॥ व्यतीतसामान्यविशेषभावाद्विश्वाभिलापार्थविकल्पशून्यं । खपुष्पवत् स्यादसदेव तत्त्वं प्रबुद्धतत्त्वाद्भवतः परेषां ॥ २६ ॥ अतत्स्वभावेऽप्यनयोरुपायाद्गतिर्भवेत्तौ वचनीयगम्यौ । सम्बन्धिनो चेन्न विरोधि दृष्टं वाच्यं यथार्थ न च दूषणं तत् ॥२७॥ उपेयतत्त्वानभिलाप्यतावदुपायतत्त्वानभिलाप्यता स्यात् । अशेषतत्त्वानभिलाप्यतायां द्विषां भवद्युक्त्यभिलाप्यतायाः॥२८॥ अवाच्यमित्यत्र च वाच्यभावादवाच्यमेवेत्ययथाप्रतिज्ञम् । स्वरूपतश्चेत्पररूपवाचि स्वरूपवाचीति वचो विरुद्धं ॥ २९ ॥ सत्यानृतं वाप्यनृतानृतं वाप्यस्तीह किं वस्त्वतिशायनेन । युक्तं प्रतिद्वंद्यनुबन्धिमिधेन वस्तु तादृक्त्वदृते जिनेदृक् ॥३०॥ सहक्रमाद्वा विषयाल्पभूरिभेदेऽनृतं भेदि न चात्मभेदात् । आत्मान्तरं स्याद्भिदुरं समं च स्याचानृतात्मानभिलाप्यता च३४ न सच नासच न दृष्टमेकमात्मान्तरं सर्वनिषेधगम्यं । दृष्टं विमिश्रं तदुपाधिभेदात् स्वप्नेऽपि नैतस्वषेः परेषां ॥३२॥