________________
૨૪૮
प्रथम गुच्छक ।
अहेतुकत्वं प्रथितः स्वभावस्तस्मिन् क्रियाकारकविभ्रमः स्यात्। आबालसिद्धेर्विविधार्थसिद्धिर्वादान्तरं किं तदसूयतां ते ॥९॥ येषामवक्तव्यमिहात्मतत्त्वं देहादनन्यत्वपृथक्त्वक्लप्तेः । तेषां शतत्वेऽनवधार्यतत्वे का बन्धमोक्षस्थितिरप्रमेये ॥१०॥ हेतुर्न दृष्टोऽत्र न वाऽप्यदृष्टो योऽयं प्रवादः क्षणिकात्मवादः । न ध्वस्तमन्यत्रभवेद्वितीये संतानभिन्ने नहि वासनाऽस्ति ॥११॥ तथा न तत्कारणकार्यभावा निरन्वयाः केन समानरूपाः । असत् खपुष्पं नहि हेत्वपेक्षं दृष्टं न सिद्ध्यत्युभयोरसिद्धम् ॥१२॥ नैवास्ति हेतुः क्षणिकात्मवादे न सनसन्वा विभवादकस्मात् । नाशोदयैकक्षणता च दुष्टा सन्तानभिन्नक्षणयोरभावात् ॥१३॥ कृतप्रणाशाकृतकर्मभोगौ स्यातामसंचेतितकर्म च स्यात् । आकस्मिकेऽर्थे प्रलयस्वभावो मार्गोन युक्तोवधकश्च न स्यात् १४ नबन्धमोक्षौ क्षणिकैकसंस्थौन संवृतिः साऽपि मृषास्वभावा। मुख्याहते गौणविधिर्न दृष्टो विभ्रान्तदृष्टिस्तव दृष्टितोऽन्या ॥१५॥ प्रतिक्षणं भङ्गिषु तत्पृथक्त्वान्न मातृघाती स्वपतिः स्वजाया। दत्तमहोनाधिगतस्मृतिर्न न क्त्वार्थसत्यं न कुलं न जातिः ॥१६॥ न शास्तृशिष्यादिविधिव्यवस्था विकल्पबुद्धिर्वितथाऽखिलाचेत् अतत्त्वतत्त्वादिविकल्पमोहे निमजतां वीतविकल्पधीः का ॥१७॥ अनर्थका साधनसाध्यधीश्चेद्विज्ञानमात्रस्य न हेतुसिद्धिः । अथार्थवत्त्वं व्यभिचारदोषो न योगिगम्यं परवादिसिद्धम् ॥१८॥ तत्त्वं विशुद्धं सकलैर्विकल्पैविश्वाभिलापास्पदतामतीतं । न स्वस्य वेद्यं न च तन्निगधं सुषुप्त्यवस्थं भवदुक्तिबाह्यं ॥१९॥ मूकात्मसंवेद्यवदात्मवेद्यं तन्म्लिष्टभाषाप्रतिमप्रलापं । अनङ्गसंशं तदवेद्यमन्यैः स्यात्वविषां वाच्यमवाच्यतत्त्वं ॥ २०॥