________________
२४६
प्रथम गुच्छक । स्याद्वादकेवलशाने सर्वतत्त्वप्रकाशने । भेदः साक्षादसाक्षाच हवस्त्वन्यतमं भवेत् ॥ १०५ ॥ सधर्मणैव साध्यस्य साधादविरोधतः । स्याद्वादप्रविभक्तार्थविशेषव्यञ्जको नयः ॥ १०६ ॥ नयोपनयैकान्तानां त्रिकालानां समुच्चयः । अविभ्राट् भावसम्बन्धो द्रव्यमेकमनेकधा ॥ १०७ ।। मिथ्यासमूहो मिथ्या चेन्न मिथ्यैकान्तताऽस्ति नः । निरपेक्षा नया मिथ्या सापेक्षा वस्तु तेऽर्थकृत् ॥१०॥ नियम्यतेऽर्थो वाक्येन विधिना वारणेन वा। तथाऽन्यथा च सोऽवश्यमविशेष्यत्वमन्यथा ॥ १०९ ॥ तदतद्वस्तु वागेषा तदेवेत्युनुशासति ।। न सत्या स्यान्मृषावाक्यैः कथं तत्वार्थदेशना ॥ ११ ॥ वाक्स्वभावोऽन्यवागर्थप्रतिषेधनिरङ्कशः। आह च स्वार्थसामान्यं तादृग्वाच्यं खपुष्पवत् ॥१११॥ सामान्यवाग्विशेषे चेन्न शब्दार्थो मृषा हि सा । अभिप्रेतविशेषाप्तेः स्यात्कारः सत्यलाञ्छनः ॥ ११२ ॥ विधेयमीप्सितार्थाङ्गं प्रतिषेध्याविरोधि यत् । तथैवादेयहेयत्वमिति स्याद्वादसंस्थितिः ॥ ११३ ॥ इतीयमाप्तमीमांसा विहिता हितमिच्छता। सम्यनिथ्योपदेशार्थविशेषप्रतिपत्तये ॥ ११४ ॥ जयति जगति क्लेशावेशप्रपञ्चहिमांशुमान् विहतविषमैकान्तध्वान्तप्रमाणनयांशुमान् । यतिपतिरजो यस्याधृष्टान्मताम्बुनिधेलवान् स्वमतमतयस्तीर्थ्या नाना परे समुपासते ॥११५॥
इति श्री आप्तमीमांसा समाता ।
-