________________
आप्तमीमांसा।
२४५
पुण्यं ध्रुवं स्वतो दुःखात्पापं च सुखतो यदि । वीतरागो मुनिर्विद्वांस्ताभ्यां युज्यानिमित्ततः ॥१३॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ ९४॥ विशुद्धिसंक्लेशाङ्गं चेत् स्वपरस्थं सुखासुखम् । पुण्यपापनवौ युक्तौ न चेद्वयर्थस्तवाहतः ॥ ९५ ॥ अज्ञानाचेधुवो बन्धो शेयानन्त्यान केवली । शानस्तोकाद्विमोक्षश्चेदज्ञानाद्वहुतोऽन्यथा ॥ ९६ ॥ विरोधान्नोभयकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ ९७॥ अज्ञानान्मोहतो बन्धो नाशानाद्वीतमाहतः। शानस्तोकाश्च मोक्षः स्यादमोहान्मोहितोऽन्यथा ॥९८॥ कामादिप्रभवश्चित्रः कर्मबन्धानुरूपतः। . तश्च कर्म स्वहेतुभ्यो जीवास्ते शुद्ध्यशुद्धितः॥ ९९ ॥ शुद्ध्यशुद्धी पुनः शक्ती ते पाक्यापाक्यशक्तिवत् ॥ साद्यनादी तयोर्यक्ती स्वभावोऽतर्कगोचरः ॥१०॥ तत्त्वज्ञानं प्रमाणं ते युगपत्सर्वभासनम् । क्रमभावि च यज्ज्ञानं स्याद्वादनयसंस्कृतम् ॥ १०१ ॥ उपेक्षा फलमाद्यस्य शेषस्यादानहानधीः । पूर्व वाऽज्ञाननाशो वा सर्वस्यास्य स्वगोचरे ॥ १०२ ॥ वाक्येष्वनेकान्तद्योती गम्यम्प्रतिविशेषकः । स्यान्निपातोऽर्थयोगित्वात्तव केवलिनामपि ॥ १०३ ॥ स्याद्वादः सर्वथैकान्तत्यागात्किवृत्तचिद्विधिः । सप्तभङ्गनयापेक्षो हेयादेयविशेषकः ॥ १०४ ॥