SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २४४ प्रथम गुच्छक । बहिरङ्गार्थतैकान्ते प्रमाणाभासनिह्नवात्। सर्वेषां कार्यसिद्धिः स्याद्विरुद्धार्थाभिधायिनाम् ॥ ८१ ॥ विरोधान्नोभयेकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्ति वाच्यमिति युज्यते ॥ ८२ ॥ भावप्रमेयापेक्षायां प्रमाणाभासनिह्नवः । बहिःप्रमेयापेक्षायां प्रमाणं तन्निभं च ते ॥ ८३ ॥ जीवशब्दः सबाह्यार्थः संशात्वाद्धेतुशब्दवत् । मायादिभ्रान्तिसंज्ञाश्च मायाद्यैः स्वैः प्रमोक्तिवत् ॥८॥ बुद्धिशब्दार्थसंशास्तास्तिस्रो बुधादिवाचिकाः । तुल्या बुद्ध्वादिबोधाश्च त्रयस्तत्प्रतिबिम्बकाः ॥ ५ ॥ वक्तृश्रोतृप्रमातृणां वाक्यबोधप्रमाः पृथक् । भ्रान्तावेव प्रमाभ्रान्तौ बाह्यार्थी तादृशेतरौ ॥ ८६ ॥ बुद्धिशब्दप्रमाणत्वं वाक्यबोधप्रमाः पृथक् । सत्यानृतव्यवस्थैवं युज्यतेऽर्थाप्त्यनाप्तिषु ॥ ८७ ॥ दैवादेवार्थसिद्धिश्चेद्दवं पौरुषतः कथम् । देवतश्चेदनिर्मोक्षः पौरुषं निष्फलं भवेत् ॥ ८८ ॥ पौरुषादेव सिद्धिश्चेत् पौरुषं देवतः कथम् । पौरुषाचेदमोघं स्यात् सर्वप्राणिषु पौरुषम् ।। ८९ ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्ति वाच्यमिति युज्यते ॥९०॥ अबुद्धिपूर्वापेक्षायामिष्टानिष्टं स्वदैवतः । बुद्धिपूर्वव्यपेक्षायामिष्टानिष्टं स्वपौरुषात् ॥ ९१ ॥ पापं ध्रुवं परे दुःखात् पुण्यं च सुखतो यदि । अचेतनाकषायौ च बध्येयातां निमित्ततः ॥ १२॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy