________________
आप्तमीमांसा।
२४३
एकत्वेऽन्यतराभावः शेषाभावोऽविनाभुवः। द्वित्वसंख्याविरोधश्च संवृतिश्चेन्मृषैव सा॥ ६९ ।। विरोधात्रोभयेकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्ति वाच्यमिति युज्यते ॥ ७० ॥ द्रव्यपर्याययोरैक्यं तयोरव्यतिरेकतः। परिणामविशेषाच्च शक्तिमच्छक्तिभावतः॥ ७१ ॥ संशासंख्याविशेषाश्च स्वलक्षणविशेषतः । प्रयोजनादिभेदाच्च तनानात्वं न सर्वथा ॥ ७२ ॥ यद्यापेक्षिकसिद्धिः स्यान्न द्वयं व्यवतिष्ठते । मनापेक्षिकसिद्धौ च न सामान्यविशेषता ॥ ७३ ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिवाच्यमिति युज्यते ॥७४॥ धर्मधर्म्यविनाभावः सिद्ध्यत्यन्योऽन्यवीक्षया । न स्वरूपं स्वतो ह्येतत् कारकशापकाङ्गवत् ॥७॥ सिद्धं चेद्धेतुतः सर्व न प्रत्यक्षादितो गतिः। सिद्धं चेदागमात्सर्व विरुद्धार्थमतान्यपि ॥ ७६ ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अचाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ ७७ ॥ वक्तर्यनाप्ते यद्धेतोः साध्यं तद्धेतुसाधितम् । आते वक्तरि तद्वाक्यात् साध्यमागमसाधितम् ।। ७८ ॥ अन्तरङ्गार्थतैकान्ते बुद्धिवाक्यं मृषाऽखिलम् ॥ प्रमाणाभासमेवातस्तत्प्रमाणाहते कथम् ॥ ७९ ॥ साध्यसाधनविज्ञप्तेर्यदि विज्ञप्तिमात्रता । न साध्यं न च हेतुश्च प्रतिमाहेतुदोषतः ॥ ८ ॥