SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ आप्तमीमांसा | चतुष्कोटेर्विकल्पस्य सर्वान्तेषूक्तयोगतः । तत्त्वान्यत्वमवाच्यं च तयोः सन्तानतद्वतोः ॥ ४५ ॥ अवक्तव्य चतुष्कोटिविकल्पोऽपि न कथ्यताम् । असर्वान्तमवस्तु स्यादविशेष्यविशेषणम् ॥ ४६ ॥ द्रव्याद्यन्तरभावेन निषेधः सञ्ज्ञिनः सतः । असद्भेदो न भावस्तु स्थानं विधिनिषेधयोः ॥ ४७ ॥ अवस्त्वनभिलाप्यं स्यात् सर्वान्तैः परिवर्जितम् । वस्त्वेवावस्तुतां याति प्रक्रियाया विपर्ययात् ॥ ४८ ॥ सर्वान्ताश्वेदवक्तव्यास्तेषां किं वचनं पुनः । संवृतिश्चेन्मृषैवैषा परमार्थविपर्ययात् ॥ ४९ ॥ अशक्यत्वादवाच्यं किमभावात्किमबोधतः । आद्यन्तोक्तिद्वयं न स्यात् किं व्याजेनोच्यतां स्फुटम् ॥ ५०॥ हिनस्त्यनभिसन्धातृ न हिनस्त्यभिसन्धिमत् । बद्ध्यते तद्द्यापेतं चित्तं बद्धं न मुच्यते ॥ ५१ ॥ अहेतुकत्वान्नाशस्य हिंसा हेतुर्न हिंसकः । चित्तसन्ततिनाशश्च मोक्षो नाष्टाङ्गहेतुकः ॥ ५२ ॥ विरूपकार्यारम्भाय यदि हेतुसमागमः । आश्रयिभ्यामनन्योऽसावविशेषादयुक्तवत् ॥ ५३ ॥ स्कन्धाः सन्ततयश्चैव संवृतित्वादसंस्कृताः । स्थित्युत्पत्तिव्ययास्तेषां न स्युः स्त्ररविषाणवत् ॥ ५४ ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ ५५ ॥ नित्यं तत् प्रत्यभिज्ञानान्नाकस्मात्तदविच्छिदा । क्षणिकं कालभेदात्ते बुद्ध्यसञ्चरदोषतः ॥ ५६ ॥ १६ ૪૩
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy