________________
२४०
प्रथम गुच्छक। अनपेक्षे पृथक्त्वैक्ये ह्यवस्तुद्वयहेतुतः। तदेवैक्यं पृथक्त्वं च स्वभेदैः साधनं यथा ॥ ३३ ॥ सत्सामान्यात्तु सर्वैक्यं पृथक् द्रव्यादिभेदतः । भेदाभेदविवक्षायामसाधारणहेतुवत् ॥ ३४॥ विवक्षा चाविवक्षा च विशेष्येऽनन्तधामणि । सतो विशेषणस्यात्र नासतस्तैस्तदर्थिभिः ॥ ३५ ॥ प्रमाणगोचरौ सन्तौ भेदाभेदो न संवृती। तावेकत्राविरुद्धौ ते गुणमुख्यविवक्षया ॥ ३६ ॥ नित्यत्वैकान्तपक्षेऽपि विक्रिया नोपपद्यते । प्रागेव कारकाभावः क प्रमाणं क तत्फलम् ॥ ३७॥ प्रमाणकारकैद्यक्तं व्यक्तं चेदिन्द्रियार्थवत् । ते च नित्ये विकार्य किं साधोस्ते शासनाद्वहिः ॥ ३८॥ यदि सत्सर्वथा कार्य पुंवनोत्पत्तुमर्हति । परिणामप्रक्लप्तिश्च नित्यत्वैकान्तबाधिनी ॥ ३९ ॥ पुण्यपापक्रिया न स्यात् प्रेत्यभावः फलं कुतः। बन्धमोक्षौ च तेषां न येषां त्वं नासि नायकः ॥ ४० ॥ क्षणिकैकान्तपक्षेऽपि प्रेत्यभावाद्यसम्भवः । प्रत्यभिज्ञाधभावान कार्यारम्भः कुतः फलम् ॥४१॥ यद्यसत्सर्वथा कार्य तन्माजनि खपुष्पवत् । मोपादाननियामोभून्माऽऽश्वासः कार्यजन्मनि ॥४२॥ न हेतुफलभावादिरन्यभाषादनन्वयात् । सन्तानान्तरवनका सन्तानस्तद्वतः पृथक् ॥ ४३ ॥ अन्येष्वनन्यशब्दोऽयं संवृतिन मृण कथम् । मुख्यार्थः संवृतिर्नास्ति विना मुख्यान संवृतिः ॥४४॥