SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ आतमीमांसा ! एवं विधिनिषेधाभ्यामनवस्थितमर्थकृत् । नेति चेन्न यथाकार्य बहिरन्तरुपाधिभिः ॥ २१ ॥ धर्मे धर्मेऽन्य एवार्थों धर्मिणोऽनन्तधर्मणः । अङ्गित्वेऽन्यतमान्तस्य शेषान्तानां तदङ्गता ॥ २२ ॥ एकानेकविकल्पादावुत्तरत्राऽपि योजयेत् । प्रक्रियां भङ्गिनीमेनां नयैर्नयविशारदः || २३ ॥ अद्वैतैकान्तपक्षेऽपि दृष्टो भेदो विरुध्यते । कारकाणां क्रियायाश्च नैकं स्वस्मात्प्रजायते ॥ २४ ॥ कर्मद्वैतं फलद्वैतं लोकद्वैतं च नो भवेत् । विद्याऽविद्याद्वयं न स्यात् बन्धमोक्षद्वयं तथा ॥ २५ ॥ हेतोरद्वैतसिद्धिश्चेद्वैतं स्याद्धेतुसाध्ययोः । हेतुना चेद्विना सिद्धिद्वैतं वाड्यात्रतो न किम् ॥ २६ ॥ अद्वैतं न विना द्वैतादहेतुरिव हेतुना । सञ्ज्ञिनः प्रतिषेधो न प्रतिषेध्याद्यते क्वचित् ॥ २७ ॥ पृथक्त्वैकान्तपक्षेऽपि पृथक्त्वादपृथक्कृतौ । पृथक्त्वे नं पृथक्त्वं स्यादनेकस्थो हासौ गुणः ॥ २८ ॥ सन्तानः समुदायश्च साधर्म्य च निरङ्कुशः । प्रेत्यभावश्च तत्सर्वं न स्यादेकत्वनिह्नवे ॥ २९ ॥ सदात्मना च भिनं चेतु ज्ञानं ज्ञेयाद्विधाऽप्यसत् । ज्ञानाभावे कथं ज्ञेयं बहिरन्तश्च ते द्विषाम् ॥ ३० ॥ सामान्यार्था गिरोऽन्येषां विशेषो नाभिलप्यते । सामान्याभावतस्तेषां मृषैव सकला गिरः ॥ ३१ ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ ३२ ॥ २३९
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy