________________
स्तोत्र--संग्रह।
(*) श्रीम-स्वामिसमन्तभद्राचार्यविरचितो
रत्नकरण्डश्रावकाचारः।
मङ्गलाचरणम्. नमः श्रीवर्द्धमानीय निर्दूतकलिलात्मने । सालोकानां त्रिलोकानां यद्विद्या दर्पणास्यते ॥१॥
धर्मोपदेशप्रतिज्ञा. देशयामि समीचीनं धर्म कर्मनिबहणम् । संसारदुःखतः सत्वान्यो धरत्युत्तमे सुखे ॥२॥
धर्मस्य लक्षणम्. सदृष्टिक्षाकवृत्तानि धर्म धर्मेश्वरा विदुः । यदीयप्रत्यनीकानि भवन्ति भवपद्धतिः ॥३॥
सम्यग्दर्शनम्. श्रद्धानं परमार्थानामाप्तागमतपोभृताम् । त्रिमूढापोढमष्टाङ्गं सम्यग्दर्शनमस्मयम् ॥४॥
प्राप्तलक्षणम्. प्राप्तेनोच्छन्नदोषेण सर्वज्ञेनागमेशिना । भवितव्यं नियोगेन नान्यथा ह्याप्तता भवेत् ॥५॥
वीतरागकथनम्. . खुत्पिपासाजरातङ्कजन्मान्तकभयस्मयाः ।