________________
वृहत्स्वयम्भूस्तोत्रम्। बहुगुणसंपदसकलं परमतमपि मधुरवचनविन्यासकलम् । नय(२)भक्त यवतंसकलं तव देव मतं समन्तभद्रं समलम् ।१४३॥
इति वीरजिनस्तोत्रम. यो(३) निःशेषजिनोक्तधर्मविषयः श्रोगौतमाद्यैः कृतः सूक्ताथै रमलैः स्तवोयमसमः स्वल्पैः प्रसन्नः पदैः । तयाख्यानमदो यथाह्यवगतः किञ्चित्कृतं लेशतः रुथेयांश्चन्द्रदिवाकरावधि बुधप्रहलादचेतस्यलम् ॥१४४॥
'इति बृहत्स्वयम्भूस्तोत्रं समाप्तम् ।
(२) नया भक्तयो भङ्गास्ता एवावतंसकं कर्णभूषणं तल्लातीति वा।
(३)अन्तिमः श्लोकः स्वयम्भुस्तोत्रस्य न किन्तु टीकाकृतः ।