SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ प्रथम गुच्छक । नास्तिकानान्तु नैवास्ति प्रमाणं तभिराकृतौ। प्रलापमात्रकं तेषां नावधेयं महात्मनाम् ॥ ११७ ॥ मागों मोक्षस्य वै सम्यग्दर्शनादित्रयात्मकः । विशेषेण प्रपत्तव्यो नान्यथा तद्विरोधतः ॥ ११८ ॥ प्रणेता मोक्षमार्गस्यावाध्यमानस्य सर्वथा। साक्षाय एव स शेयो विश्वतत्त्वशताश्रयः ॥ ११९ ॥ वीतनिःशेषदोषोऽतः प्रवन्धोर्डन् गुणाम्बुधिः । तद्गुणप्राप्तये सद्भिरिति संक्षेपतोऽन्वयः ॥ १२० ॥ मोहाक्रान्तान भवति गुरो मोक्षमार्गप्रणीति. नेते तस्याः सकलकलुषध्वंसजा स्वात्मलब्धिः । तस्यै वन्धः परगुरुरिह क्षीणमोहस्त्वमर्हन् साक्षात्कुर्वन्नमलकमिवाशेषतत्त्वानि नाथ ॥ १२१ ॥ न्यक्षेणाप्तपरीक्षाप्रतिपक्षं क्षपयितुं क्षमा साक्षात् । प्रेक्षावतामभीक्ष्णं विमोक्षलक्ष्मीः क्षणाय संलक्ष्या ॥१२२॥ श्रीमत्तत्त्वार्थशास्त्राद्भुतसलिलनिधेरिद्धरत्नोद्भवस्य प्रोत्थानारम्भकाले सकलमलभिदे शास्त्रकारैः कृतं यत् । स्तोत्रं तीर्थोपमा प्रथितपृथुपथं स्वामिमीमांसितं त. द्विद्यानन्दैः स्वशक्त्या कथमपि कथितं सत्यवाक्यार्थसिद्ध्यै॥१२३॥ इति तत्वार्थशास्त्रादौ मुनीन्द्रस्तोत्रगोचरा। प्रणीताप्तपरीक्षेयं कुविवादनिवृत्तये ॥ १२४ ॥ इत्याप्तपरीक्षा समाप्ता।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy