________________
आप्तपरीक्षा।
२३५
अभावोऽपि प्रमाणं ते निषेध्याधारवेदने । निषेध्यस्मरणे च स्थानास्तिताशानमञ्जसा ॥ १०५ ॥ न चाशेषजगज्ज्ञानं कुतश्चिदुपपद्यते । नापि सर्वक्षसंवित्तिः पूर्व तत्स्मरणं कुतः ॥ १०६ ॥ येनाशेषजगत्यस्य सर्वज्ञस्य निषेधनम् । परोपगमतस्तस्य निषेधे म्वेष्टबाधनम् ॥ १०७॥ मिथ्यकान्तनिषेधस्तु युक्तोऽनेकान्तसिद्धितः। नासर्वक्षजगत्सिद्धेः सर्वज्ञप्रतिषेधनम् ॥ १०८ ॥ एवं सिद्धः सुनिर्णताऽसम्भवद्बाधकत्वतः । सुखवद्विश्वतत्वज्ञः सोऽहनेव भवानिह ॥ १०९ ॥ स कर्मभूभृतां भेत्ता तद्विपक्षप्रकर्षतः। यथा शीतस्य भेत्तेह कश्चिदुष्णप्रकर्षतः ॥ ११०॥ तेषामागमिनां तावद्विपक्षः संवरो मतः। तपसा सञ्चितानान्तु निर्जरा कर्मभूभृताम् ॥ १११ ॥ तत्प्रकर्षः पुनः सिद्धः परमः परमात्मनि । तारतम्यविशेषस्य सिद्धरुष्णप्रकर्षवत् ॥ ११२॥ कर्माणि द्विविधान्यत्र द्रव्यभावविकल्पतः। द्रव्यकर्माणि जीवस्य पुद्गलात्मान्यनेकधा ॥ ११३ ॥ भावकर्माणि चैतन्यविवर्तात्मानि भान्ति नुः । क्रोधादीनि स्ववेद्यानि कथंचिश्चिदभेदतः ॥ ११४॥ तत्स्कन्धराशयः प्रोक्ता भूभृतोऽत्र समाधितः। जीवाद्विश्लेषेणं भेदः सन्तानात्यन्तसंक्षयः ॥ ११५ ॥ स्वात्मलाभस्ततो मोक्षः कृत्स्नकर्मक्षयात्मनः । निर्जरासंवराभ्यां तुः सर्वसद्वादिनामिह ॥ ११६ ॥